| YouTube Channel

तीर्णः (tIrNaH)

 
शब्दकल्पद्रुमः
Sanskrit
तीर्णः, त्रि, (तॄ प्लवनतरणयोः + कर्त्तरि क्तः ।उत्तीर्णः (यथा, वह्निपुराणे कन्यादाननामा-ध्याये ।“तीर्णस्त्वं सर्व्वदुःखेभ्यः परं स्वर्गमवाप्स्यसि
”)अभिभूतः प्लुतः (तॄ + कर्म्मणि क्तः कृतो-त्तरणः यथा, महाभारते १९२ ।“सत्यां तीर्णां शत्रुमध्ये तेनतदा नाशंसे विजयाय सञ्जय !
”)