| YouTube Channel

तीक्ष्णायसं (tIkSNAyasaM)

 
शब्दकल्पद्रुमः
Sanskrit
तीक्ष्णायसं,
क्ली,
(अय एव आयसम् तीक्ष्णञ्चतत् आयसञ्चेति ।) लोहविशेषः तीखा इतिइश्पात इति भाषा
तत्पर्य्यायः लोहम् २शस्त्रायसम् शस्त्रम् पिण्डा पिण्डायसम् ६शठम् आयसम् निशितम् तीव्रम् १०खड्गम् ११ मुण्डितम् १२ अयः १३ चित्रा-यसम् १४ चीनजम् १५ अस्य गुणाः रूक्ष-त्वम् उष्णत्वम् तिक्तत्वम् वातपित्तकफ-प्रमेहपाण्डुशूलनाशित्वम् तीक्ष्णत्वम् मुण्ड-लोहाधिकत्वञ्च इति राजनिर्घण्टः
(व्यव-हारोऽस्य यथा, रसेन्द्रसारसंग्रहे शूलाधिकारेत्रिफलालौहे,
“तीक्ष्णायश्चूर्णसंयुक्तं त्रिफला चूर्णमुत्तमम् ।क्षीरेण पाययेद्धीमान् सद्यः शूलनिवारणम्
”)