| YouTube Channel

तीक्ष्णगन्धा (tIkSNagandhA)

 
Monier Williams Cologne
English
तीक्ष्ण—गन्धा
f.
N.
of several plants (= °धक
=
-कण्टका, Sinapis ramosa, जीवन्ती, वचा, श्वेत-वचा,
L.
),
Suśr.
vi, 23, 2
small cardamoms,
L.
Shabdartha Kaustubha
Kannada
तीक्ष्णगन्धा
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಬಜೆ
तीक्ष्णगन्धा
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಕರಿಜೀರಿಗೆ
व्युत्पत्तिः - > तीक्ष्णो गन्धो यस्याः
विस्तारः - > "तीक्ष्णगन्धा वचाराजिकयोः शोभाञ्जने पुमान्"- मेदि०
Wordnet
Sanskrit
Synonyms:
प्रियङ्गु, तीक्ष्णगन्धा
noun
कृष्णिकाप्रकारः।
"इदं प्रियङ्गोः तैलं वर्तते।"
Synonyms:
तीक्ष्णगन्धा
noun
क्षुपनामविशेषः
"तीक्ष्णगन्धा इति नैकेषां क्षुपाणां नाम वर्तते"
शब्दकल्पद्रुमः
Sanskrit
तीक्ष्णगन्धा,
स्त्री,
(तीक्ष्ण उग्रो गन्धो यस्याः ।)श्वेतवचा कन्थारी राजिका इति राज-निर्घण्टः
(पर्य्याया यथा, --“राजीतु राजिका तीक्ष्णगन्धा कुञ्जनिकासुरी ।क्षवः क्षुताभिजनकः कृमिकृत्कृष्णसर्षपः
”इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे
)वचा इति मेदिनी धे, ४६
जीवन्ती इतिशब्दचन्द्रिका
(यथा, सुश्रुते उत्तरतन्त्रे २४अध्याये ।“उग्रा कुष्ठं तीक्ष्णगन्धा विडङ्गंश्रेष्ठं नित्यं चावपीडे करञ्जम्
”)सूक्ष्मैला इति रत्नमाला
वाचस्पत्यम्
Sanskrit
तीक्ष्णगन्धा स्त्री तीक्ष्णः गन्धोऽस्याः वचायां, राजि-कायाम्, कन्थार्य्यां, राजनि० जीवन्त्याञ्च शब्दच० ।६ श्वेतवचायां मेदि० सूक्ष्मैलायाम्, रत्नमा०