| YouTube Channel

तीक्ष्णकान्ता (tIkSNakAntA)

 
Spoken Sanskrit
English
तीक्ष्णकान्ता - tIkSNakAntA -
f.
- form of caNDikA
तीक्ष्णकान्ता - tIkSNakAntA -
f.
- fond of cruelty
तीक्ष्णकान्ता tIkSNakAntA
f.
form of caNDikA
चण्डिकामाहात्म्य caNDikAmAhAtmya
n.
glory of caNDikA
चण्डिकाशतक caNDikAzataka
n.
100 stanzas in praise of caNDikA
Monier Williams Cologne
English
तीक्ष्ण—कान्ता
f.
‘fond of cruelty’, a form of Caṇḍikā,
KālP.
Shabdartha Kaustubha
Kannada
तीक्ष्णकान्ता
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಚಂಡಿಕೆಯ ಒಂದು ರೂಪ
शब्दकल्पद्रुमः
Sanskrit
तीक्ष्णकान्ता,
स्त्री,
(तीक्ष्णा उग्रा कान्ता कम-नीया ।) मङ्गलचण्डिकाया रूपभेदः ।यथा, --“पीठे दिक्करवासिन्या द्बिरूपा रमते शिवा ।तीक्ष्णकान्ताह्वया त्वेका योग्रतारा प्रकीर्त्तिता
पुरा ललितकान्ताख्या या श्रीमङ्गलचण्डिका ।तस्यास्तु सततं रूपं तीक्ष्णकान्ताह्वयं नृप !
कृष्णा लम्बोदरी या तु सा स्यादेकजटा शिवा ।तेन रूपेण तां देवीं सततं परिपूजयेत्
अङ्गाङ्गिमन्त्रौ रूपञ्च तस्याः प्राक् प्रतिपादि-तम् ।त्रिकोणं मण्डलं चास्याः कर्त्तव्यं मन्त्रपूर्व्वकम्
आदौ रेखे ततः पश्चात् सुरेखेति पदं ततः ।तथा पदं चाधिगत्य तिष्ठन्त्विति पदं ततः
मण्डलन्यासमन्त्रोऽयं तीक्ष्णायाः परिकीर्त्तितः ।नव त्रिपुरदेवादियमवेतालदुर्द्धराः
गणाश्रमेऽत्यन्तकान्ता द्वारपालाः प्रकीर्त्तिताः ।एतांस्तु पूजयेत् सम्यक् मण्डलस्याष्टदिक्षु वै
आदौ सम्बोधनं कृत्वा वज्रपुष्पं ततः परम् ।वह्रिजाया ततः पश्चात् मन्त्रमेषां प्रकीर्त्तितम्
पात्रोपकरणादीनां स्थानन्यासस्य सर्व्वतः ।सर्व्वमुत्तरतन्त्रोक्तं ग्राह्यं रूपद्वयेऽपि
चामुण्डा कराला शुभगा भीषणा भगा ।विकटेति योगिन्यः प्रोक्तास्तस्यास्तु भूपते !
हे भगवत्येकजटे विद्महे पदमन्ततः ।विकटदंष्ट्रे धीमहीति तन्नस्तारे प्रचोदयात्
एषा तु तीक्ष्णा गायत्त्री पीठदेव्याः प्रकीर्त्तिता ।निर्म्माल्यधारिणी चास्या देवी विकटचण्डिका
माला तु मृण्मयी प्रोक्ता रुद्राक्षसम्भवापि वा ।विशेष एष देव्यास्तु पूजने परिकीर्त्तितः
उपचारादिकं कृत्यं बलिदानं जपादिकम् ।सर्व्वन्तु पूर्व्ववद्ग्राह्यं कामाख्यापूजने यथा
पानेषु मदिरा शस्ता नरो बलिषु पार्थिव ! ।मोदको नारिकेलञ्च मांसं व्यञ्जनमैक्षवम्
नैवेद्येषु प्रियकरास्तीक्ष्णायाः परिकीर्त्तिताः
”इति कालिकापुराणे ८२ अध्यायः
वाचस्पत्यम्
Sanskrit
तीक्ष्णकान्ता स्त्री नि० कर्म्म० तारादेव्याम् उग्रतारायाम् ।“पीठे दिक्करिवासिन्या द्विरूपा वसते शिवा तीक्ष्ण-कान्ताह्वया त्वेका योग्रतारा प्रकीर्तिता” “पुरा ललि-तकान्ताख्या या श्रीमङ्गलचण्डिका तस्यास्तु सततंरूपं तीक्ष्णकान्ताह्वयं नृप! कृष्णा लम्बोदरी यातु सा स्यादेकजटा शिवा तेन रूपेण तां देवीं सततंपरिपूजयेत्” कालि०
पु०
८२ अ०