| YouTube Channel

तिस्तरीषकः-तिस्तरिषकः-षिका (tistarISakaH-tistariSakaH-SikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“स्तॄञ् आच्छादने”@} 2 प्वादिः, ल्वादिश्च।
‘स्तॄञः श्नि च्छादने प्वादेः स्तृणीते स्तृणाति च।
श्नावृदन्तस्य…।।’ 3 इति देवः।
‘स्तृञ् आप्रवणे’ इति काशकृत्स्नः।
पा।
धा।
समीक्षायां ‘स्तृञ्’ इति ह्रस्वोपधेन मैत्रेय-क्षीरस्वामि-सायणादयः पठन्ति इत्युक्तम्।
तन्न समीचीनम्।
स्तारकः-रिका, स्तारकः-रिका, तिस्तरीषकः-तिस्तरिषकः-षिका, तिस्तीर्षकः-र्षिका, तेस्तिरकः-रिका
स्तरीता-स्तरिता-त्री, स्तारयिता-त्री, तिस्तरीषिता-तिस्तरिषिता- तिस्तीर्षिता-त्री, तेस्तिरिता-त्री
इत्यादिकानि रूपाणि सर्वाण्यपि क्रैयादिककॄ 4 धातुवत् ऊह्यानि।
5 6 मणिप्रस्तारः, 7 प्रस्तरः, 8 पटस्य विस्तारः, शब्दविषये तु विस्तरः।
9 विष्टारः, 10 विष्टरः 11 , 12 अवस्तारः, आस्तीर्णः, 13 स्तीर्णिः, स्तरी-मेघः शय्या च, स्तरीमास्तीर्य, इमानि रूपाण्यधिकान्यत्रेति विशेषः।
प्रासङ्गिक्यः
01
=>
(१९३८)
02
=>
(९-क्र्यादिः-१४८४। सक। सेट्। उभ।)
03
=>
(श्लो। ३५)
04
=>
(२५८)
05
=>
[पृष्ठम्१३८९+ २८]
06
=>
[[१। ‘प्रे स्त्रोऽयज्ञे’ (३-३-३२) इति प्रशब्द उपपदे यज्ञभिन्नविषये घञ्। यज्ञविषये हविषाम् प्रस्तरः इति अप्प्रत्यय एव।]]
07
=>
[हविषाम्]
08
=>
[[२। ‘प्रथने वावशब्दे’ (३-३-३३) इति वि इत्युपसर्गे उपपदे प्रथने गम्यमाने घञ्प्रत्ययः। शब्दविषये विस्तरः।]]
09
=>
[[३। ‘छन्दोनाम्नि च’ (३-३-३४) इति छन्दोविषये नाम्नि घञ्प्रत्यये, ‘छन्दोनाम्नि च’ (८-३-९४) इति षत्वे रूपमेवम्।]]
10
=>
[[४। विस्तीर्यते इति विष्टरः। विपूर्वात् स्तॄधातोः ‘ॠदोरप्’ (३-३-५७) इत्यप्- प्रत्यये ‘वृक्षासनयोर्विष्टरः’ (८-३-९३) इति षत्वे रूपमेवम्। विष्टरः = आसनम्, अश्वत्थवृक्षश्च।]]
11
=>
[[आ। ‘अपूपुजन् विष्टरपाद्यमाल्यैः आतिथ्यनिष्णा वनवासिमुख्याः।’ भ। का। २-२६।]]
12
=>
[[५। ‘अवेतॄस्त्रोर्घञ्’ (३-३-१२०) इति करणाधिकरणयोर्घञ्।]]
13
=>
[[६। ‘ॠल्वादिभ्यः क्तिन्--’ (३-३-९४) इति क्तिनस्तकारस्य नकारः। णत्वम् च।]]