| YouTube Channel

तिलतैलं (tilatailaM)

 
शब्दकल्पद्रुमः
Sanskrit
तिलतैलं,
क्ली,
(तिलस्य स्नेहः तिल + “स्नेहेतैलच् ।” २९ इत्यस्य वार्त्तिकोक्त्यातैलच् ।) तिलस्नेहः तिलेषु तैलम् इतिव्याकरणम्
(यथा, सुश्रुते ४५ ।सर्व्वेभ्यस्त्विह तैलेभ्यस्तिलतैलं प्रशस्यते
”)अस्य गुणाः तिलशब्दे द्रष्टव्याः
(अपरेगुणाश्च यथा, हारीते स्थाने नवमेऽध्याये ।“तच्च ज्ञेयं समासेन यथायोगं यथाविधि ।कषायानुरसं स्वादु सूक्ष्ममुष्णं व्यवायि
पित्तकृद्वातशमनं श्लेष्मरोगादिवर्द्धनम् ।अल्पं रुचिकरं मेध्यं कण्डूकुष्ठविकारनुत्
वृष्यं श्रमापहं ज्ञेयं तिलतैलं विदुर्ब्बुधाः ।छिन्ने भिन्ने च्युते घृष्टे क्षते भग्नेऽग्निदाहके
वाताभिष्यन्दिस्फुटने चाभ्यङ्गे तिलतैलकम् ।विषे व्यालशौनसर्प्ये सेकाभ्यङ्गावगाहने
पाने वस्तौ नस्ये तथाकर्णप्रपूरणे ।तिलतैलं विधेयं स्यात् सर्व्वरोगनिवारणम्
”“तथा छिन्नभिन्नविद्धोत्पिष्टच्युतमथितक्षत-पिच्छितभग्नस्फुटितक्षाराग्निदग्धविश्लिष्टदारि-ताभिहतदुर्भग्नमृगब्यालविदष्टप्रभृतिषु परि-षेकाभ्यङ्गावगाहेषु तिलतैलं प्रशस्यते ।तद्बस्तिषु पाने नस्ये कर्णाक्षिपूरणे ।अन्नपानविधौ चापि प्रयोज्यं वातशान्तये
”इति सुश्रुते सूत्रस्थाने ४५ अध्याये
)