| YouTube Channel

तिर्य्यङ् (tiryyaG)

 
शब्दकल्पद्रुमः
Sanskrit
तिर्य्यङ्, [ञ्च्]
पुं,
(तिर्य्यगञ्चतीति अन्च +क्विप् “तिरसस्तिर्य्यलोपे ।” ९४ इतितिरिः ।) विहङ्गादिः इति मेदिनी
(यथा, महाभारते १३ १११ १२५ ।“पापानि तु नरः कृत्वा तिर्य्यग् जायेतभारत !
”यथाच मनुः ४० ।“ओषध्यः पशवो वृक्षास्तिर्य्यञ्चः पक्षिणस्तथा
”“तिर्य्यञ्चः कूर्म्मादयः ।” इति तट्टीकायां कुल्लूक-भट्टः
) पशुः इति हेमचन्द्रः १०८
(यथा, पञ्चतन्त्रे ११९ ।“तिर्य्यञ्चं मानुषं वापि यो मृतं संस्पृशेत् कुधीः ।पञ्चगव्येन शुद्धिः स्यात् तस्य चान्द्रायणेन
”)वक्रगामी इति शब्दरत्नावली