| YouTube Channel

तिर्य्यक्स्रोताः (tiryyaksrotAH)

 
शब्दकल्पद्रुमः
Sanskrit
तिर्य्यक्स्रोताः, [स्]
पुं,
(तिर्य्यक् वक्रं स्रोतआहारसञ्चारो यस्य भुक्तान्नस्य तिर्य्यक्तयाउदरे सञ्चारादस्य तथात्वम् ।) पशुपक्ष्यादिः ।(यथा, विष्णुपुराणे ।“तस्याभिध्यायतः सर्गं तिर्य्यक्स्रोताभ्यवर्त्तत ।यस्मात् तिर्य्यक्प्रवृत्तः तिर्य्यक्स्रोतास्ततःस्मृतः
”)स ब्रह्मणोऽष्टमः सर्गः तु अष्टाविंशद्विधः ।यथा, --“तिरश्चामष्टमः सर्गः सोऽष्टाविंशद्विधो मतः
”तेषां लक्षणं यथा, --“अविदो भूरितमसो घ्राणजा हृद्यवेदिनः
”इति श्रीभागवते १० २१
“तिरञ्चां तिर्य्यक्स्रोतसाम् अविदः श्वस्तनादि-ज्ञानशून्याः भूरितमसः आहारादिमात्र-निष्ठाः घ्राणजा घ्राणेनैव इष्टमर्थं जानन्ति ।हृदि अवेदिनः दीर्घानुसन्धानशून्याः ।” इतितट्टीकायां श्रीधरस्वामी
अष्टाविंशतिभेदायथा, --“गौरजो महिषः कृष्णः शूकरो गवयो रुरुः ।द्विशफाः पशवश्चेमे अविरुष्ट्रश्च सत्तम !
खरोऽश्वोऽश्वतरो गौरः शरभश्चमरी तथा ।एते चैकशफाः क्षत्तः शृणु पञ्चनखान् पशून्
श्वा शृगालो वृको व्याघ्रो मार्ज्जारः शश-शल्यकौ ।सिंहः कपिर्गजः कूर्म्मो गोधा मकरादयः
कङ्कगृध्रवकश्येनभासभल्लूकवर्हिणः ।हंससारसचक्राह्वकाकोलूकादयः खगाः
”इति श्रीभागवते १० २२-२३
“गवादय उष्ट्रान्ता द्बिशफा द्बिखुरा नव ।खरादयश्चमर्य्यन्ता एकशफाः षट् श्वादयोगोधान्ताः पञ्चनखा द्बादश एते भूचराःसप्तविंशतिः मकरादयो जलचराः कङ्कादयःखगाः अभूचरत्वेनैकीकृत्य गृहीता एवमष्टा-विंशतिभेदान् वदन्ति अन्येषामपि तिर्य्यक्-प्राणिनां यथायथमेतेष्वन्तर्भावः ।” इति तट्टी-कायां श्रीधरस्वामी