| YouTube Channel

तिर्य्यक्स्रोतस् (tiryyaksrotas)

 
शब्दसागरः
English
तिर्य्यक्स्रोतस्
m.
(-ताः) An animal, a beast or bird.
E.
तिर्य्यक् crookedly,
and स्रोतस् motion. तिर्य्यक् स्रोतः आहारसञ्जारो यस्य पशुपक्ष्यादौ
Yates
English
तिर्य्यक्-स्रोतस् (ताः) 5.
m.
An animal.
Wilson
English
तिर्य्यक्स्रोतस्
m.
(-ताः) An animal, a beast or bird.
E.
तिर्य्यक् crookedly, and स्रोतस् motion.
वाचस्पत्यम्
Sanskrit
तिर्य्यक्स्रोतस्
पु०
तिर्य्यक् स्रोतो आहारसञ्चारो यस्य ।पशुपक्ष्यादौ तेषामशितान्नस्य तिर्य्यक्तया उदरे सञ्चा-रात् तथात्वम् तद्भेदाभाग० १० २१“तिरश्चामष्टमः सर्गः सोऽष्टाविंशद्विधोमतः अविदोभूरितमसो घ्राणज्ञा हृद्यवेदिनः गौरजो महिषःकृष्णः शूकरो गवयोरुरुः द्विशफाः पशवश्चेमे अविरु-ष्ट्रश्च सत्तम! खरोऽश्वोऽश्वतरो गौरः शरभश्चमरीतथा एते चैकशफाः क्षत्तेः! शृणु पञ्चनखान् पशून् ।श्वा शृगालो वृको व्याध्रो मार्ज्जारः शशशल्लकौ सिंहःकपिर्गजः कूर्म्मो गोधा मकरादयः कङ्कगृध्रवकश्येनभासभल्लूकवर्हिणः हंससारसचक्राङ्गकाको-लूकादयः खगाः ।”“तिर्य्यक्स्रोतसां सर्गमाह तिरश्चामिति चाष्टा-विंशतिभेदः तिरश्चां लक्षणम् अविदः श्वस्तनादिज्ञान-शून्याः भूरितमसः आहारादिमात्रनिष्ठाः घ्राणज्ञाःघ्राणेनैवेष्टमर्थं जानन्ति हृदि अवेदिनः दीर्घानुसन्धान-शून्याः तथा श्रुतिः “अथेतरेषां पशूनाम् अशनापिपासे एवाभिविज्ञानं विज्ञातं वदन्ति विज्ञातं पश्यन्तिन विदुः श्वस्तनं लोकालोकाविति” अष्टाविंशति-भेदानाह गवादय उष्ट्रान्ताः द्विशफाः द्विखुरा नवगवादयः चमर्य्यन्ता एकशफाः षट् श्वादयो गोधान्ताःपञ्चनखाद्वादश एवमेते भूचराः सप्तविंशतिः, भकरा-दयो जलचराः कङ्कादयश्च खगाः अभूचरत्वेनैकी-कृत्य गृहीताः तदेवमष्टाविंशतिभेदान् वदन्ति ।तेषु कृष्णरुरुगौराः मृगविशेषाः अन्येषामपि तिर्य्यकेप्राणिनामेतेष्वेब यथायथमन्तर्भावः ।”