| YouTube Channel

तिमिरः (timiraH)

 
Apte Hindi
Hindi
तिमिरः
पुं*
- -
अन्धकार
तिमिरः
पुं*
- -
अन्धापन
तिमिरः
पुं*
- -
"जंग, मुर्चा"
Wordnet
Sanskrit
Synonyms:
तिमिरः
noun
एकं नगरम्
"तिमिरस्य उल्लेखः रामायणे वर्तते"
शब्दकल्पद्रुमः
Sanskrit
तिमिरः,
पुं,
(तिम्यति क्लिद्यति चक्षुरनेन तिम +“इषिमदिमुदीति ।” उणां ५२ इति किरच् ।)चक्षूरोगविशेषः तस्य निदानादि यथा ।चतुर्थपटलगतदोषमाह ।“तिमिराख्यः यो दोषश्चतुर्थपटलं गतः ।रुणद्धि सर्व्वतो दृष्टिं लिङ्गनाश इति क्वचित्
अस्मिन्नपि तमोभूते नातिरूढे महागदे ।चन्द्रादित्यौ नक्षत्रावन्तरीक्षे विद्यतः
निर्म्मलानि तेजांसि भ्राजिष्णूनि पश्यति ।स एव लिङ्गनाशस्तु नीलिकाकाचसंज्ञितः
यो दोषः दोषोऽत्र रोगः चतुर्थपटलं वाह्य-पटलं गतः तिमिराख्यः तिमिरदर्शनेनतिमिरमस्यास्तीति तिमिरः अर्श आदित्वात् ।तस्य लक्षणमाह रुणद्धीत्यादि तिमि-राख्यः सर्व्वतः सर्व्वत्र लिङ्गनाश इतिक्वचित् तन्त्रान्तरे लिङ्गनाशसंज्ञः तस्य निरु-क्तिश्च लिङ्ग्यते चिह्न्यते अनेनेति लिङ्गं दृष्टि-तेजः तस्य नाशोऽस्मिन् इति लिङ्गनाशः ।अस्मिन्नपि तिमिरेऽपि तमोभूते तमस्तुल्ये ।अत्र तु भूतशब्दस्तुल्यार्थः भूतं प्राण्यतीतेसमे त्रिष्वित्यमरवचनात् नातिरूढे अप्रौढे ।चन्द्रादित्यौ नक्षत्राणि पश्यति अन्तरीक्षेअन्तरीक्षस्य प्रकाशमयत्वेन तमोऽभिभावात् ।तेजांसि अग्न्यादेः भ्राजिष्णूनि रत्नसुवर्णा-दीनि अस्मिन् प्रौढे नीरजे चन्द्रादित्यादीन्नपश्यतीत्यन्वयः नीलिकाकाचसंज्ञितः नीलिका-काचेति नामान्तराभ्यां युक्तः
*
दृष्टिरोगाणां सङ्ख्यानामानि चाह ।दृष्ट्याश्रया षट् षडेव रोगाःषड्लिङ्गनाशा हि भवन्ति तत्र ।वातेन पित्तेन कफेन सर्व्वै-रुक्तात् परिम्लाय्य विधिश्च षष्ठः
दृष्ट्याश्रया षट् षडेव रोगाः षट् षट् द्बादशे-त्यर्थः तत्र लिङ्गनाशाः षट् तान् विवृ-णोति वातेनेत्यादि
*
तथा नरः पित्तविदग्धदृष्टिःकफेन चान्यस्त्वथ धूमदर्शी ।यो ह्रस्वजात्यो नकुलान्ध्यसंज्ञोगम्भीरसंज्ञा तथैव दृष्टिः
पित्तविदग्धदृष्ट्यादयः षट् एवं दृष्ट्यादयश्चषट् एवं दृष्ट्याश्रया द्वादशरोगाः
*
तत्र द्वावन्यौ चाह ।तत्रैवान्यौ गदौ बद्धौ सनिमित्तानिमित्तकौ
तेषु वातजस्य लिङ्गनाशस्य लक्षणमाह ।वातेन खलु रूपाणि भ्रमन्तीव पश्यति ।आविलान्यरुणाभानि व्याविद्धानीव मानवः
आविलानि कलुषाणि अरुणानि अव्यक्त-लौहित्ययुक्तानि आविद्धानीव कुटिलानीव
*पैत्तिकमाह ।पित्तेनादित्यखद्योतशक्रचापतडिद्गुणान् ।नृत्यतश्चैव शिखिनः सर्व्वं नीलञ्च पश्यति
आदित्यादीनां गुणान् रूपाणि
*
श्लैष्मिकमाह ।कफेन पश्येद्रूपाणि स्निग्धानि सितानि ।सलिलप्लावितानीव जालकानीव मानवः
*
सन्निपातजमाह ।सन्निपातेन चित्राणि विपरीतानि पश्यति ।बहुधापि द्विघा वापि सर्व्वाण्येव समन्ततः
हीनाधिका सान्यथा वा ज्योतींष्यपि चपश्यति
चित्राणि नानावर्णानि विपरीतानि वैपरीत्यंविवृणोति बहुधेत्यादि
*
रक्तजमाह ।पश्येद्रक्तेन रक्तानि तमांसि विविधानि ।हरितान्यथ कृष्णानि पीताश्वपि मानवः
*
परिम्लायिनमाह ।रक्तेन मूर्च्छितं पित्तं परिम्लायिनमाचरेत् ।तेन पीता दिशः पश्येदुद्यन्तमिव भास्करम्
विकीर्य्यमाणान् खद्योतैर्वृक्षांस्तेजांसि चैव हि
विकीर्य्यमाणान् व्याप्यमानान् अग्न्यादिभिरिव
वातादिजनितैर्नेत्रवर्णैरपि षड्विधः ।लिङ्गनाशो निगदितो वर्णो वातादितो यथा
रागारुणो मारुततः प्रदिष्टोम्लायी नीलश्च तथैव पित्तात् ।कफात् सितः शोणिततः सरक्तःसमस्तदोषप्रभवो विचित्रः
*
वातादिना हेतुभूतेन जनिते नेत्रविषये मण्डलेरूपविशेषमाह ।अरुणं मण्डलं वाताच्चञ्चलं परुषं तथा ।पित्ततो मण्डलं नीलं कांस्याभं वा सपीतकम्
श्वेतं पीतं वा कथमेतत् व्याधिप्रभावात्
श्लेष्मणा बहलं स्निग्धं शङ्खकुन्देन्दुपाण्डरम् ।चलत्पद्मपलाशस्थशुक्लो बिन्दुरिवाम्भसः ।मृद्यमाने तु नयने मण्डलं तद्बिसर्पति
बहलं स्थूलम् ।मण्डलं तु भवेच्चित्रं लिङ्गनाशे त्रिदोषजे ।प्रवालपद्मपत्राभं मण्डलं शोणितात्मकम्
चित्रं वातादिवर्णम् ।रक्तजं मण्डलं दृष्टौ स्थूलकाचारुणप्रभम् ।परिम्लायिनि रोगे स्यात् म्लानं नीलमथापि वा
दोषक्षयात् स्वयं तत्र कदाचित् स्यात्तु दर्शनम्
रक्तजं पित्तानुगामिरक्तजम् स्थूलकाचारुण-प्रभं स्थूलकाचस्येवारुणा प्रभा यस्य तत् एतेनस्थौल्यमरुणत्वञ्च बोध्यते दोषक्षयादित्यादि ।तत्र परिम्लायिनि कालान्तरेण दोषक्षयात्कदाचित् स्वयमेव दर्शनं स्यात्
*
अनुक्त-व्यथादाहगौरवादिदोषलिङ्ग-संग्रहणार्थमाह ।यथास्वं दोषलिङ्गानि सर्व्वेष्वेव भवन्ति हि
*
पत्तविदग्धदृष्टेर्लक्षणमाह ।पित्तेन दुष्टेन गतेन दृष्टिंपीता भवेद्यस्य नरस्य दृष्टिः ।पीतानि रूपाणि तेन पश्येत्सर्व्वो नरः पित्तविदग्धदृष्टिः
पित्तेन गतेन दृष्टिं दृष्टावपि प्रथमद्बितीयेपटले गतेनेति बोद्धव्यम् तेन व्याधिना
*
तस्मिन्नेव पित्ते दृष्टौ तृतीयं पटलं गते रूप-विशेषमाह ।प्राप्ते तृतीयं पटलं तु दोषेदिवा पश्येन्निशि वीक्षते सः ।रात्रौ शीतानुगृहीतदृष्टिःपित्ताल्पभावात् सकलानि पश्येत्
दोषेऽत्र पित्ते
*
अथ श्लेष्मविदग्धदृष्टि-लक्षणमाह ।तथा नरः श्लेष्मविदग्धदृष्टि-स्तान्येव शुक्लानि हि मन्यते तु ।अत्रापि श्लेष्मणो दृष्टौ प्रथमद्वितीयपटलगतस्यै-तल्लिङ्गं बोद्धव्यम्
*
एव श्लेष्मा दृष्टौपटलत्रयं गतो नक्तान्ध्यं करोतीत्याह ।त्रिपु स्थितो यः पटलेषु दोषोनक्तान्ध्यमापादयति प्रसह्य ।दिवा सूर्य्यानुगृहीतदृष्टिःपश्येत्तु रूपाणि कफाल्पभावात्
दोषोऽत्र कफस्तस्योपक्रान्तत्वात् नक्तान्ध्यस्यश्लेष्मविदग्धदृष्टावन्तर्भूतत्वाच्च पृथग्गणना
*
धूमदर्शिनमाह ।शोकज्वरायाः सशिरोऽभितापै-रव्याहता यस्य नरस्य दृष्टिः ।धूम्रांस्तु यः पश्यति सर्व्वभावात्स धूमदर्शीति नरः प्रदिष्टः
शिरोऽभितापः शिरसि घर्म्मादिना सन्तापः ।एतस्य पित्तदोषो बोद्धव्यः
*
ह्नस्वजात्यमाह ।यो वासरे पश्यति कष्टतोऽथरूपं महच्चापि निरीक्षतेऽल्पम् ।रात्रौ पुनर्यः प्रकृतानि पश्येत्स ह्नस्वजात्यो मुनिभिः प्रदिष्टः
*
नकुलान्ध्यमाह ।विद्योतते यस्य नरस्य दृष्टि-र्दोषाभिपन्ना नकुलस्य यद्वत् ।चित्राणि रूपाणि दिवा पश्येत्स वै विकारो नकुलान्ध्यसंज्ञः
*
गम्भीरकमाह ।दृष्टिर्व्विरूपा श्वसनोपसृष्टासङ्कुच्य याभ्यन्तरतः प्रयाति ।रुजावगाढा तमक्षिरोगंगम्भीरकेति प्रवदन्ति तज्ज्ञाः
विरूपा विकृता श्वसनोपसृष्टा वातोपहता ।रुजावगाढा गम्भीरवेदनान्विता
*
वाह्यौ पुनर्द्वावपि संप्रदिष्टौनिमित्ततश्चाप्यनिमित्ततश्च ।निमित्ततस्तस्य शिरोऽभितापात्ज्ञेयस्त्वभिष्यन्दनिदर्शनैः सः
वाह्यौ सुश्रुतोक्तद्बादशसंख्येभ्योऽधिकौ तत्रनिमित्तत आह शिरोऽभितापात् शिरोऽभि-ताप्यते येन विषकुसुमगन्धवहपवनस्पर्शेन सशिरोऽभितापस्तस्मात् अभिष्यन्दनिदर्शनैःरक्ताभिष्यन्दलिङ्गैरिति गदाधरः
सन्निपाता-भिष्यन्दलिङ्गैरिति कार्त्तिकः
*
अनिमित्तत आह ।सुरर्षिगन्धर्व्वमहोरगाणांसन्दर्शनेनापि भास्करस्य ।हन्येत दृष्टिर्म्मनुजस्य तस्यस लिङ्गनाशस्त्वनिमित्तसंज्ञः
अनुपलभ्यमानानां सुरादीनां दर्शननिमित्त-मप्यनिमित्तं मन्यते
*
अनिमित्ततो लिङ्गनाशस्य लक्षणमाह ।तत्राक्षिविस्पष्टमिवावभातिषैदूर्य्यवर्णा विमला दृष्टिः ।विस्पष्टं ज्योतिर्युक्तम् वैदूर्य्यवर्णा श्यामाविमला निर्म्मला इति दृष्टिरोगाः
*
अथ तिमिरचिकित्सा ।“भुक्त्वा पाणितलं घृष्ट्वा चक्षुषोर्यदि दीयते ।अचिरेणैव तद्वारि तिमिराणि व्यपोहति
*
शङ्खनाभिर्विभीतस्य पथ्यामज्जा मनःशिला ।पिप्यली मरिचं कुष्ठं वचा चेति समांशकम्
छागीक्षीरेण संपिष्य वटीं कुर्य्याद्यवोन्मिताम् ।हरेणुमात्रां संघृष्य जलेनाञ्जनमाचरेत्
तिमिरं मांसवृद्धिञ्च काचं पटलमर्व्वुदम् ।रात्र्यन्धं वार्षिकं पुष्पं वटी चन्द्रोदया हरेत्
”इति चन्द्रोदया वटी
*
कणा सलवणोषणा सहरसाञ्जना साञ्जनासरित्पतिकफः सिता सितपुनर्न्नवा सम्भवा ।रजन्यरुणचन्दनं मधु तुत्थपथ्याशिलाअरिष्टदलसावरस्फुटिकशङ्खनाभीन्दवः
इमानि तु विचूर्णयेन्निविडवाससा शोधये-त्तथायसि विमर्द्दयेत् समधुताम्रखण्डेन तत् ।इदं मुनिभिरीरितं नयनशोणनामाञ्जनंकरोति तिमिरक्षयं पटलपुष्पनाशं बलात्
लवणं सैन्धवम् अञ्जनं सुरमा इति लोके ।सरित्पतिकफः समुद्रफेनः शिला मनःशिला ।सावरो लोध्रः स्फुटिकः फट्करी इन्दूःकर्पूरः नयनशोणं तिमिरे नूतनकुसुमे नूतन-पटले
*
हरीतकी वचा कुष्ठं पिप्पली मरिचानि ।विभीतकस्य मज्जा शङ्खनाभिर्म्मनःशिला
सर्व्वमेतत् समं कृत्वा गव्यक्षीरेण पेषयेत् ।नाशयेत्तिमिरं कण्डुं पटलाण्यर्व्वुदानि
अपि त्रैवार्षिकं शुक्रं मासेनैकेन नाशयेत् ।अधिकानि मांसानि रात्रावन्धत्वमेव
चन्द्रोदया वटी पुष्पे तिमिरे
*
रजनी निम्बपत्राणि पिप्पली मरिचानि ।विडङ्गं भद्रमुस्तञ्च सप्तमी त्वभया स्मृता
अजामूत्रेण संपिष्य छायायां शोषयेद्बटीम् ।वारिणा तिमिरं हन्ति गोमूत्रेण तु पिष्टिकाम्
मधुना पटलं हन्ति नारीक्षीरेण पुष्पकम् ।एषा चन्द्रप्रभावर्त्तिः स्वयं रुद्रेण निर्म्मिता
इति चन्द्रप्रभावर्त्तिः
*
कणा छागयकृन्मध्ये पक्वा तद्रसपेषिता ।अचिराद्धन्ति नक्तान्ध्यं तद्बत् सक्षौद्रमूषणम्
त्रिफलाया रसं प्रस्थं प्रस्थं भृङ्गरजस्य ।वृषस्य रसं प्रस्थं शतावर्य्याश्च तत्समम्
गुडूच्या आमलक्याश्च रसं छागीपयस्तथा ।प्रस्थं प्रस्थं समाहृत्य सर्व्वैरेभिर्घृतं पचेत्
कल्कः कणा सिता द्राक्षा त्रिफला नीलमुत्-पलम् ।मधुकं क्षीरकाकोली मधुपर्णी निदिग्धिका
तत्साधुसिद्धं विज्ञाय शुभे भाण्डे निधापयेत् ।ऊर्द्ध्वं पानमधःपानं मध्ये पानं प्रशस्यते
यावन्तो नेत्रजा रोगास्तान् पानादपकर्षति ।सुरक्ते रक्तदुष्टे रक्ते वा विश्रुते तथा
नक्तान्ध्ये तिमिरे काचे नीलिका पटलार्व्वुदे ।अभिष्यन्देऽधिमन्थे यक्ष्मकोपे सुदारुणे
नेत्ररोगेषु सर्व्वेषु दोषत्रयकृतेष्वपि ।परं हितमिदं प्रोक्तं त्रिफलाद्यं महाघृतम्
भृङ्गरजः भृङ्गराजः भङ्गगरा इति लोके ।क्षीरकाकोल्या अलाभे अश्वगन्धामूलं ग्राह्यम्
मधुपर्ण्यत्र जलजं यष्टीमधु चक्षुष्यत्वात् तद-लाभे सामान्यं यष्टीमधु ग्राह्यं तूल्यगुणत्वात्
त्रिफलाद्यं घृतम्
*
शतमेकं हरीतक्या द्विगुणञ्च विभीतकम् ।चतुर्गुणं त्वामलकं वृषमार्कवयोः समम्
चतुर्गुणोदकं दत्त्वा शनैर्म्मृद्वग्निना पचेत् ।भागं चतुर्थं संरक्ष्य क्वाथं तमवतारयेत्
शर्करा मधुकं द्राक्षा मधुयष्टिर्न्निदिग्धिका ।काकोली क्षीरकाकोली त्रिफला नागकेशरम्
पिप्पली चन्दनं मुस्तं त्रायमाणामथोत्पलम् ।घृतप्रस्थसमं क्षीरं कल्कैरेतैः शनैः पचेत्
हन्यात् सतिमिरं काचं नक्तान्ध्यं शुक्रमेव ।तथा स्रावञ्च कण्डूञ्च श्वयथुञ्च कषायताम्
कलुषत्वञ्च नेत्रस्य विधर्म्मपटलान्वितम् ।बहुनात्र किमुक्तेन सर्व्वान् नेत्रामयान् हरेत्
यस्य चोपहता दृष्टिः सूर्य्याग्निभ्यां प्रपश्यतः ।तस्यैतद्भेषजं प्रोक्तं मुनिभिः परमं हितम्
मार्ज्जितं दर्पणं यद्वत् परां निर्म्मलतां व्रजेत् ।तद्वदेतेन पीतेन नेत्रं निर्म्मलतामियात्
वारिद्रोणद्वयं चात्र वृषमार्कवयोस्तुले ।काकोलीयुगलालाभे अश्वगन्धामूलं ग्राह्यम्
द्वितीयं त्रिफलाद्यं घृतम्
*
वासाविश्वामृतादार्व्वीरक्तचन्दनचित्रकैः ।भूनिम्बनिम्बकटुकापटोलत्रिफलाम्बुदैः
निशाकलिङ्गकुटजैः क्वाथः सर्व्वाक्षिरोगहा ।वैस्वर्य्यं पीनसं श्वासं कासं नाशयति ध्रुवम्
वासादिक्वाथः ।इति नेत्ररोगाधिकारः ।” इति भावप्रकाशः
*
किञ्च गारुडे १९८ अध्याये ।“कतकस्य फलं शङ्खं सैन्धवं त्र्युषणं वचा ।फेनो रसाञ्जनं क्षौद्रं विडङ्गानि मनःशिला
एषां वर्त्तिर्हन्ति कासं तिमिरं पटलं तथा