तिमिरं (timiraM)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दकल्पद्रुमः
Sanskritतिमिरं, (तिम्यतीति । तिम + “इषिमदि-मुदीति ।” उणां । १ । ५२ । इति किरच् ।)अन्धकारः । इत्यमरः । १ । १० । ३ ॥
(यथा, रामायणे । २ । २८ । १८ ।“अतीववातस्तिमिरं बुभुक्षा चास्ति नित्यशः ।भयानि च महान्त्यत्र अतो दुःखतरं वनम् ॥
”)नेत्ररोगविशेषः । तस्य लक्षणमाह माधवकरः ।“तिमिराख्यः स वै दोषश्चतुर्थं पटलं गतः ।रुणद्धि सर्व्वतो दृष्टिं लिङ्गनाशमतः परम् ॥
”(अस्य लक्षणानि यथा, --“दोषे मण्डलसंस्थाने मण्डलानीव पश्यति ।द्विधैकं दृष्टिमध्यस्थे बहुघा बहुधास्थिते ॥
दृष्टेरभ्यन्तरगते ह्रस्ववृद्धविपर्य्ययम् ।नान्तिकस्थमधःसंस्थे दूरगं नोपरिस्थितम् ॥
पार्श्वे पश्येन्न पार्श्वस्थे तिमिराख्योऽयमामयः ।प्राप्नोति काचतां दोषे तृतीयपटलाश्रिते ॥
तेनोर्द्धमीक्षते नाधस्तनुचेलावृतोपमम् ।यथा वर्णञ्च रज्येत दृष्टिर्हीयेत च क्रमात् ॥
तथाप्युपेक्षमाणस्य चतुर्थं पटलं गतः ।लिङ्गनाशं मलः कुर्व्वन् छादयेद्दृष्टिमण्डलम् ॥
तत्र वातेन तिमिरे व्याविद्धमिव पश्यति ।चलाविलारुणाभासं प्रसन्नञ्चेक्षते मुहुः ॥
जालानि केशान् मशकान् रश्मींश्चोपेक्षितेऽत्र च ।काचीभूते दृगरुणा पश्यत्यास्यमनासिकम् ॥
चन्द्रदीपाद्यनेकत्वं वक्रमृज्वपि मन्यते ।वृद्धः काचो दृशं कुर्य्याद्रजोधूमावृतामिव ॥
स्पष्टारुणाभां विस्तीर्णां सूक्ष्मां वा हतदर्शनाम् ।सलिङ्गनाशो वाते तु सङ्कोचयति दृक्शिराः ॥
दृङ्मण्डलं विशत्यन्तर्गम्भीरादृगसौ स्मृता ।पित्तजे तिमिरे विद्युत् खद्योतद्योतदीपितम् ॥
शिखितित्तिरिपिच्छाभं प्रायो नीलञ्च पश्यति ।काचे दृक्काचनीलाभा तादृगेव च पश्यति ॥
अर्केन्दुपरिवेषाग्निमरीचीन्द्रधनुंषि च ।भृङ्गनीला निरालोका दृक्स्निग्धा लिङ्गनाशतः ॥
दृष्टिः पित्तेन ह्रस्वाख्या सा ह्रस्वा ह्रस्वदर्शना ।भवेत् पित्तविदग्धाख्या पीता पीताभदर्शना ॥
कफेन तिमिरे प्रायः स्निग्धं श्वेतञ्च पश्यति ।शङ्खेन्दूकुन्दकुसुमैः कुमुदैरिव चाचितम् ॥
काचे तु निष्प्रभेन्द्वर्क प्रदीपाद्यैरिवाचितम् ।सिताभा सा च दृष्टिः स्याल्लिङ्गनाशे तु लक्ष्यते ॥
मूर्त्तः कफो दृष्टिगतः स्निग्धो दर्शननाशनः ।बिन्दूर्जलस्येव चलः पद्मिनीपुटसंस्थितः ॥
उष्णे सङ्कोचमायाति छायायां परिसर्पति ।शङ्खकुन्देन्दूकुमुदस्फटिकोपमशुक्लिमा ॥
रक्तेन तिमिरे रक्तं तमोभूतञ्च पश्यति ।काचेन रक्ता कृष्णा वा दृष्टिस्तादृक् च पश्यति ॥
लिङ्गनाशेऽपि तादृक्दृङ्निष्प्रभा हतदर्शना ।संसर्गसन्निपातेषु विद्यात् सङ्कीर्णलक्षणान् ॥
तिमिरादीनकस्माच्च तैः स्याद्ब्यक्ताकुलेक्षणम् ।तिमिंरे शेषयोर्दृष्टौ चित्रो रागः प्रजायते ॥
”इति वाभटेनोत्तरस्थाने द्बादशेऽध्याये उक्तम् ॥
अस्य चिकित्सा यथा, --“तिमिर काचतां याति काचोऽप्यान्ध्य-मुपेक्षया ।नेत्ररोगेष्वतो घोरं तिमिरं साधयेद्द्रुतम् ॥
तुलां पचेत जीवन्त्या द्रोणेऽपां पादशेषितैः ।तत्क्वाथे द्विगुणं क्षीरं घृतप्रस्थं विपाचयेत् ॥
प्रपौण्डरीककाकोली पिप्पली लोध्रसैन्धवैः ।शताह्वा मघुकद्राक्षा सितादारुफलत्रयैः ॥
कार्षिकैर्निशि तत् पीतं तिमिरापहरं परम् ॥
”“पटोलनिम्बकटुका दार्व्वीसेव्यवरावृषम् ।सधन्वयासत्रायन्ती पर्पटं पालिकं पृथक् ॥
प्रस्थमामलकानाञ्च क्वाथयेन्नल्वणेऽम्भसि ।तदाढकेऽर्द्धपलिकैः पिष्टैः प्रस्थं घृतात् पचेत् ॥
मुस्तभूनिम्बषष्ट्याह्वकुटजोदीच्यचन्दनैः ।सपिप्पलीकैस्तत्सर्पिर्घ्राणकर्णास्यरोगजित् ॥
विद्रधिज्वरदुष्टारुर्विसर्पापचिकुष्ठनुत् ।विशेषाच्छुक्रतिमिरनक्तान्ध्योष्णाम्लदाहनुत् ॥
”“त्रिंशद्भागा भुजङ्गस्य गन्धपाषाणपञ्चकम् ।शुल्वतालकयोर्द्वौ द्वौ वङ्गस्यैकोऽञ्जनात्रयम् ॥
अन्धमूषीकृतं ध्मातं पक्वं विमलमञ्जनम् ।तिमिरान्तकरं लोके द्वितीय इव भास्करः ॥
गोमूत्रे छगलरसेऽम्लकाञ्जिके चस्त्रीस्तन्ये हविषि विषे च माक्षिके च ।यत्तुत्थं ज्वलितमनेकशो निषिक्तंतत्कुर्य्यात् गरुडसमं नरस्य चक्षुः ॥
”“रसेन्द्रभुजगौ तुल्यौ तयोस्तुल्यमथाञ्जनम् ।ईषत् कर्पूरसंयुक्तमञ्जनं नयनामृतम् ॥
”“सामान्यं साधनमिदं प्रतिदोषमतः शृणु ।वातजे तिमिरे तत्र दशमूलाम्भसा घृतम् ॥
क्षीरे चतुर्गुणे श्रेष्ठाकल्कपक्वं पिबेत्ततः ॥
”“पित्तजे तिमिरे सर्पिर्जीवनीयफलत्रयैः ।विपाचितं पाययित्वा स्निग्धस्य व्यधयेच्छिराम् ॥
श्लेष्मोद्भवेऽमृताक्वाथवराकणशृतं घृतम् ।विध्येच्छिरां पीतवतो दद्याच्चानुविरेचनम् ॥
”“रक्तजे पित्तवत्सिद्धिः शीतैश्चास्रं प्रसादयेत् ।”“दद्यादुशीरनिर्य्यूहचूर्णितं कणसैन्धवम् ॥
तत् शृतं सघृतं भूयः पचेत् क्षौद्रं घने पिबेत् ।शीते चास्मिन् हितमिदं सर्व्वजे तिमिरेऽञ्जनम् ॥
”“चक्षूरक्षायां सर्व्वकालं मनुष्यै-र्यत्नः कर्त्तव्यो जीविते यावदिच्छा ।व्यर्थो लोकोऽयं तुल्यरात्रिन्दिवानांपुंसामन्धानां विद्यमानेऽपि वित्ते ॥
”इति चोत्तरस्थाने त्रयोदशेऽध्याये वाभटे-नोक्तम् ॥
“सौवीरमञ्जनन्तुत्थन्ताप्यो धातुर्म्मनःशिला ।चक्षुष्यं मधुकं लोहा मणयः पौष्यमञ्जनम् ॥
सैन्धवं शौकरीदंष्ट्रा कतकञ्चाञ्जनं शुभम् ।तिमिरादिषु चूर्णं वा वर्त्तिर्व्वेयमनुत्तमा ॥
”“वदने कृष्णसर्पस्य निहितं मासमञ्जनम् ।ततस्तस्मात् समुद्धृत्य सशुष्कं चूर्णयेद्बुधः ॥
सुमनःक्षारकैः शुष्कैरर्द्धांशैः सैन्धवेन च ।एतन्नित्याञ्जनं कार्य्यं तिमिरघ्नमनुत्तमम् ॥
”इति चरके चिकित्सास्थाने २६ अध्याये ॥
)
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
