| YouTube Channel

तिपृ (tipR)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
तिप्
मूलधातुः:
तिपृ
धात्वर्थः:
क्षरणे
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
अनिट्
उपग्रहः:
आत्मनेपदी
रूपम्:
तेपते
धातुप्रदीपः
Sanskrit
तिपृँ तिपृ
मानकरूपान्तरम् - तेपृँ
तेपृ
मानकरूपान्तरम् - ष्तिपृँ
ष्टिपृ
मानकरूपान्तरम् - ष्तेपृँ
ष्टेपृ क्षरणार्थाः
- तेपते तेप्ता अतितेपत् तिपः
क्षीरतरङ्गिणी
Sanskrit
तिपृँ तिपृ
मानकरूपान्तरम् - तेपृँ
तेपृ
मानकरूपान्तरम् - ष्तिपृँ
ष्टिपृ
मानकरूपान्तरम् - ष्तेपृँ
ष्टेपृ क्षरणार्थाः
-इतः स्तुभान्ताः (1278) षटत्रिंशत् सेट आत्मनेपदिश्च तेपते, स्तेपते, अतितेपत्, अतिष्टेपत् किति विशेषः-तिपित्वा तेपित्वा, स्तिपित्वा स्तेपित्वातेपिता, गणकृत्यमनित्यम् (तु0 सीरदेव परि0 वृत्ति सं0 121) इति तेप्ता 354-357
धातुवृत्तिः
Sanskrit
तिपृँ तिपृ
मानकरूपान्तरम् - तेपृँ
तेपृ
मानकरूपान्तरम् - ष्तिपृँ
ष्टिपृ
मानकरूपान्तरम् - ष्तेपृँ
ष्टेपृ (अर्थः) क्षरणार्थाः
एतदादयस्तोभत्यन्ता उदात्ता अनुदोत्ततः तपिं तिपिं चापीत्यनिट्कारिकासु पाठात्. तिपिरेकोऽनुदात्तः ऋदित्पवर्गान्तात्मनेपदित्वसाम्याच्चेह पाठः क्षीरस्वामिना त्वयं सेडुदाहृतः, तत्काश्यपवृत्तिन्यासपदमञ्जर्यादिविरोधात् तपिं तिपिसिति व्याघ्रभूतिवचनविरोधात् चोपेक्ष्यम् ( तेपते तितेपे तितपिषे तितपिवहे ) क्रादिनियमादिट् ( तेप्ता तेप्त्स्यते तेपताम् अतेपत तेपेत आशिषि तिप्सीष्ट अतिप्त अतिप्साताम् ) झलि सिज्लोपः ( सूत्रम्) लिङ्सिचावात्मनेपदेषु (इति सूत्रम्) इति इक्समीपाद्धलः परयोर्झलाद्योर्लिङसिचोः कित्त्वान्न गुणः आत्मनेपदेष्विति सिच एव विशेषणं नलिङः, परत्वासम्भवात् परस्मैपदिषु झलादित्वासंभवाच्च ( तितिप्सते ) ( सूत्रम्) हलन्ताच्च (इति सूत्रम्) इति इक्समीपाद्धलादेः सनः कित्त्वाणौ चङि ह्रस्वाभावः ( तेपते तितेपे तेपिता तेपिष्यते तेपताम् अतेपत तेपेत तेषिषीष्ट अतीपिष्ट तितेपिषते, तेतिप्यते तेतेपीत तेतेप्ति स्तेपते तिष्टिपे तिष्टिपाते ) "अभ्यासे खयः शेषः, स्तेपितेत्यादि तेपिवत् ( तिस्तेपिषते तिस्तिपिषते, स्तिपित्वा, स्तेपित्वा ) "स्तौतिण्योरेव'' इत्यषत्वम् "रलो व्युपधात्'' इति वा कित्त्वम् ( तेष्टिप्यते तेष्टिपीति तेष्टेप्ति टुष्टिप्तः ) तिपिवत् ष्टपिः अभ्यासे खयः शेषो विशेषः दिपृ देपृ इति काश्यपः 361
कृदन्तरूपमाला
Sanskrit
1 {@“तिपृ क्षरणार्थः”@} 2 3 ‘क्षीरस्वामी तु, अयं 4 सेट् इति बभ्राम।’ इति सिद्धान्तकौमुदी।
यतस्तत्र 5 क्त्वायाम्--‘किति विशेषः--तिपित्वा, तेपित्वा’ इत्युक्तम्।]] तेपकः-पिका, तेपकः-पिका, तितिप्सकः-सिका, तेतिपकः-पिका
तेप्ता-त्री, तेपयिता-त्री, तितिप्सिता-त्री, तेतिपिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि दैवादिकक्षिपधातुवत् 6 ज्ञेयानि।
अस्य धातोरात्मनेपदित्वात् शानचि -- तेपमानः, तेप्स्यमानः, तितिप्स्समानः, तितिप्सिष्यमाणः
इत्यादीनि रूपाणि भवन्तीति विशेषः।
प्रासङ्गिक्यः
01
=>
(७२१)
02
=>
(१-भ्वादिः-३६२। अक। अनि। आत्म।)
03
=>
[[[अ]
04
=>
(धातुः)
05
=>
(क्षीरतरङ्गिण्यां)
06
=>
(३०६)