| YouTube Channel

तिन्दुकं (tindukaM)

 
शब्दकल्पद्रुमः
Sanskrit
तिन्दुकं,
क्ली,
(तिन्दुरिव कायतीति कै + कः ।)कर्षपरिमाणम् इति वैद्यकपरिभाषा
(यथा, शार्ङ्गधरे पूर्व्वखण्डे अध्याये ।“कोलद्बयञ्च कर्षः स्यात् प्रोक्ता पाणि-मालिका ।अक्षः पिचुः पाणितलं किञ्चिपाणिश्च तिन्दु-कम्
”यथास्य पर्य्यायाः ।“विद्याद्द्वौ द्रंक्षणौ कर्षं सुवर्णञ्चाक्षमेव ।विडालपदकन्तच्च पिचुम्पाणितलन्तथा
तिन्दुकञ्च विजानीयात् कवडग्रहमेव
”इति कल्पस्थाने द्बादशेऽध्याये चरकेणोक्तम्
)