तिथी (tithI)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Spoken Sanskrit
Englishतिथी - tithI - - lunar day
Apte
Englishतिथी [tithī], (= तिथिः q. v. ) * 13.
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
शब्दकल्पद्रुमः
Sanskritवाचस्पत्यम्
Sanskritतिथि(थी) पुंस्त्री० अत--इथिन् पृषो० वा ङीप् । १ प्रञ्चदशसुचन्द्रकलाक्रियारूपासु प्रतिपदादिषु, अमरः २ पञ्चदश-सङ्क्यायाञ्च । अस्य निरुक्त्यादिकं कालमाधवीये उक्तं यथा“अथ तिथयोनिर्णीयन्ते । तत्र तिथिशब्दस्तनोतेर्द्धा-र्न्निष्पन्नः । तनोति विस्तारयति वर्द्धमानां क्षीयमाणांवा चन्द्रकलामेकां यः कालविशेषः सा तिथिः । यद्वायथोक्तकलया तन्यत इति तिथिः । तदुक्तं सिद्धान्त-शिरोमणौ “तन्यते कलया यस्मात्तस्मात्तास्तिथयःस्मृताः” इति । एतदेवाभिप्रेत्य स्कान्दे पठ्यते “अमा-षोडशभागेन देवि! प्रोक्ता महाकला । संस्थिता परमामाया देहिनां देहधारिणी । अमादिपौर्णमास्यन्ताया एव शशिनः कलाः । तिथयस्ताः समाख्याताःषोडशैव वरानने!” इति । अयभर्थः । या महामायाआधाररूपा देहिनां देहधारिणी संस्थिता या साचन्द्रमण्डलस्य षोडशभागेन परिमिता चन्द्रदेहधारि-ण्यमानाम्नी महाकलेति प्रोक्ता क्षयोदयरहिता नित्यातिथिसंज्ञिकैव । इतरा अपि पञ्चदश कला दिवसव्यव-हारोपयोगिन्यः क्षयोदयवत्यः पञ्चदश तिथयो भवन्तीतितिथयः षोडशैवेत्यविरुद्धं वचनमिति । श्रुतिस्त्वस्मि-न्नेवार्थे पक्षनिर्णय एवोदाहृतः । “तस्य रात्रयः पञ्च-दश कला ध्रुवैषास्य षोडशी कलेति” । एवं सत्यत्र सा-मान्यविशेषरूपेण तिथिद्वैविध्यमुक्तं भवति । तत्रयेयममेत्युक्ता क्षयोदयवर्जिता ध्रुवा षोडशी कलातद्युक्तः कालस्तिथिमासान्यम् । यास्त्ववशिष्टा वृद्धिक्षयो-पेताः पञ्चदश कलास्ताभिर्विशिष्टाः कालविभागास्तिथि-विशेषाः । तासां पञ्चदशानामेकैकां कलां वह्न्यादयःप्रजापत्यन्ताः पञ्चदश देवताः क्रमेण पिबन्ति । तत्रवह्निना कला प्रथमं पीयत इति प्रथमेत्युच्यते । तयायुक्तः कालविशेषः प्राथम्यवाचिना प्रतिपच्छब्देनाभि-धीयते । एवं द्वितीयादीनां पञ्चदश्यन्तानां तिथीनांनामान्यवगन्तव्यानि । ता एताः कृष्णपक्षतिथयोभवन्ति । पुनश्च ताः पीताः कला अनेनैव क्रमेण तत्तत्पातृवह्न्यादिदेवताभ्यो निर्गत्य चन्द्रमण्डलं पूरयन्ति ।ताभिर्युक्ताः कालविशेषाः शुक्लपक्षगताः प्रतिपदाद्या-स्तिथयो भवन्ति । वह्न्यादिदेवतानां कलापानं सोमो-त्पत्तौ पठ्यते । तथाहि “प्रथमां पिबते वह्निर्द्वितीयांपिवते रविः । विश्वे देवास्तृतीयान्तु चतुर्थीं सलिला-धिपः । पञ्चमीं तु वषट्कारः षष्ठीं पिवति वासवः ।सप्तमीमृषयो दिव्या अष्टमीमजएकपात् । नवमींकृष्णपक्षस्य यमः प्राश्नाति वै कलाम् । दशमीं पिबतेवायुः पिबत्येकादशीमुमा । द्वादशीं पितरः सर्वेसमं प्राश्नन्ति भागशः । त्रयोदशीं धनाध्यक्षः कुवेरःपिबते कलाम् । चतुर्दशीं पशुपतिः पञ्चदशीं प्रजा-पतिः । निपीतः कलया शेषश्चन्द्रमा न प्रकाशते । कला-षोडशिका या सा त्वपः प्रविशते सदा । अमायान्तु सदासोम औषधीः प्रतिपद्यते । तमोषधिगतं गावः पिव-न्त्यम्बुगतञ्च यत् । तत्क्षीरममृतं भूत्वा मन्त्रपूतंद्विजानिभिः । हुतमग्निषु यज्ञेषु पुनराप्यायते शशी ।दिने दिने कलावृद्धिः पौर्णमास्यान्तु पूर्यते” । ज्योतिः-शास्त्रे तु शिद्धान्तशिरोमणिकारेण तिथिरेवं प्रदर्शिता ।“अर्काद्विनिसृतः प्राचीं यद्यात्यहरहः शशी ।तच्चन्द्रमानमंशैस्तु ज्ञेया द्वादशभिस्तिथिरिति” । अय-मर्थः । सूर्य्यमण्डलस्य अधःप्रदेशवर्त्ती शीघ्रगामीचन्द्र ऊर्द्ध्वप्रदेशवर्त्ती मन्दगामी सूर्य्यस्तथा सति तयो-र्गतिविशेषवशात् दर्शे चन्द्रमण्डलमन्यूनमनतिरिक्तंसूर्य्यमण्डलस्याधोभागे व्यवस्थितं भवति तदा सूर्य्य-रश्मिभिः साकल्येनाभिभूतत्वाच्चन्द्रमण्डलमीषदपि नदृश्यते । उपरितने शीघ्रगत्या सूर्य्याद्विनिःसृतः शशीप्राचीं याति । त्रिंशदंशोपेतराशौ द्वादशभिरंशैः सूर्य्य-मुल्लङ्घ्य गच्छति । तथा चन्द्रस्य पञ्चदशसु भागेषु प्रथम-भागो दर्शनयोग्यो भवति । सोऽयं भागः प्रथमकलेत्य-भिधीयते । तत्कलानिष्पत्तिपरिमितः कालः प्रति-पत्तिथिर्भवति । एवं द्वितीयादितिथिष्ववगन्तव्यमिति ।तदेतद्विष्णुधर्म्मोत्तरे विस्पष्टमभिहितम् “चन्द्रार्कगत्या कालस्य परिच्छेदो यदा भवेत् । तदा तयोःप्रवक्ष्यामि गतिमाश्रित्य निर्णयम् । भगणेन समग्रेणज्ञेया द्वादश राशयः । त्रिंशांशश्च तथा राशेर्भागइत्यभिधीयते । आदित्याद्विपकृष्टस्तु भागद्वादशकं यदा ।चन्द्रमाः स्यात्तदा राम! तिथिरित्यभिधीयते” इति । सेयंद्वादशभिर्भागैः सूर्य्यमुल्लङ्घितवती प्रथमा चन्द्रकला शृङ्ग-द्वयोपेतसूक्ष्मरेखाकारा शौक्ल्यमीषदुपयाति । उत्तरो-त्तरदिनेषु सूर्य्यमण्डलविप्रकर्षतारतम्यानुपारेण शोक्ल्य-मुपचीयते । अनयैव रोत्या सन्निकर्षतारतम्येन मेच-कत्वमुपचीयते । तदेतदुक्तं सिद्धान्तशिरोमणौ “उप-चयमुपयाति शौक्ल्यमिन्दोस्त्यजत इनं व्रजतश्च मेच-कत्वम् । जलमयमण्डलस्य गोलकत्वात् प्रभवति तीक्ष्ण-विषाणरूपताऽस्येति” । सूर्य्याचन्द्रमसोर्यौ सन्निकर्षविप्रकर्षौतयोरवसानं दर्शपूर्णिमयोः सम्पद्यते । तदाह गोभिलः“यः परो विप्रकर्षः सूर्य्याचन्द्रमसोः सा पौर्णमासी ।यः परः सन्निकर्षः साऽमावास्येति” नन्वत्र चन्द्रकलानांसूर्य्यप्रवेशनिर्गमौ प्रतीयेते सोमोत्पत्तौ तु वह्न्यादिदेव-तासु । नायं दोषः अस्मदादिदर्शनापेक्षया ज्योतिःशास्त्रस्यप्रवृत्तत्वात् । सोमोत्पत्तौ तु वह्न्यादिदेवतानां तत्तत्कला-प्रयुक्ता तृप्तिर्विवक्षिता । यदि सूर्य्ये प्रवेशनिर्गमौयदि वा वह्न्यादिदेवतासु, सर्वथापि कलाप्रयुक्ता एवप्रतिपदादितिथयः । ननु सावनदिनेषु सौरदिवसेषु चनिर्णयमुपेक्ष्य चान्द्रतिथिष्वेव कुतो निर्णयोद्यम इतिचेत् । सन्देहसद्भावादिति व्रूमः । न खलु सौरसावना-दिदिवसयोः सन्देहसद्भावोऽस्ति नियतपरिमाणत्वात् ।तच्च ब्रह्मसिद्धान्तेऽभिहितम् “सावनं स्यादहोरात्र-मुदयादोदयाद्रवेः । रवेस्त्रिंशस्तु राश्यंशस्तिथिसम्भोगऐन्दवमिति” । एकस्मिन् राशौ यावन्तं कालं रवि-र्वर्त्तते तावतः कालस्य त्रिंशो योऽयमंशः स सौरो दिवसःतिथिरेका कला तत्सम्भोग इन्दोर्यावता कालेन निष्पद्यतेतदैन्दवं दिनम् । न चात्र सौरसावनयोरिव चान्द्रेऽपिदिने सन्देहाभावः शङ्कनीयः ह्रासवृद्धिवशेन सन्देह-सद्भावात् । ह्रासवृद्धी च गर्गेण दर्शिते “खर्वोदर्पस्तथा हिंस्रस्त्रिविधं तिथिलक्षणम् । धर्माधर्मवशा-देवं तिथिस्त्रेधा विवक्षितेति” । खर्वा समतिथिः । दर्पावृद्धियुक्ता हिंस्रापक्षययुक्ता । तस्यैतस्य त्रैविध्यस्य विप-रिवर्तनविशेषेण तिथिः संपूर्णा खण्डा चेति द्वैविध्य-मापद्यते । तत्र संपूर्णा स्कन्दपुराणे दर्शिता “प्रतिपत्-प्रभृतयः सर्वा उदयादोदयाद्रवेः । संपूर्णा इतिविख्याता हरिवासरवर्जिताः” इति । हरिवासर एका-दशी । या तु नोक्तलक्षणा सा स्वण्डतिथिः । तत्रसंपूर्णायां विधिनिषेधयोर्नास्ति सन्देहः । स्वण्डतिथौतु विधिनिषेधव्यवस्थामाह गार्ग्यः । “निमित्तं काल-मादाय वृत्तिर्विधिनिषेधयोः । विधिःपूज्यतिथौ तत्रनिषेधः कालमात्रके । तिथीनां पूज्यता नाम कर्मानुष्ठान-योग्यता । निषेधस्तु निवृत्त्यात्मा कालमात्रमपेक्षते” इति ।एवञ्च सति खण्डतिथौ पूज्यत्वं निर्णेतव्यं भवति ।तत्र प्रतिपदमारभ्य पञ्चशश्यन्तास्तिथयः क्रमेणनिर्णीयन्ते ।”कालमाधवीयग्रन्थे विस्तरोद्रष्टव्यः । कारिकाभिश्चमाधवेन तत्तत्तिथिभेदेषु खण्डविशेषग्राह्यता प्रसङ्गाग-तमासादिनिरूपणपूर्वकं दर्शिता यथा“व्याख्याय माधवाचाय्यो धर्मान् पाराशरानथ । तदनु-ष्ठानकालस्य निर्णयं वक्तुमुद्यतः । अर्थोऽनुक्रम्यतेश्लोकैरखिलो निर्णनीषितः । तावतैवानुतिष्ठासुर्निःस-न्देहं प्रबर्त्तताम् । ततो मीमांसुचित्तस्य समा-धानाय तत् पुनः । विवरिष्ये यथान्यायं श्रुतिस्मृतिवचोवलात् । पञ्च प्रकरणान्यत्र तेषूपोद्घातवत्सरौ ।प्रतिपच्छिष्टतिथयो नक्षत्रादिरिति क्रमः । १ उपोद्वातेकालसत्त्वं तस्य निर्णययोग्यता । ईश्वरो नित्यका-लात्मा चिन्तनीयः स कर्म्मसु । जन्यकालेऽव्दमुख्यत्वमुक्तमेतच्चतुष्टयम् । अव्दायनर्त्तुमासाश्च पक्षः प्रकर-णान्तरे २ । अव्दः पञ्चविघश्चान्द्रो व्रतादौ तिलका-दिके । सुजन्मादिव्रते सौरो गोसत्रादिषु सावनः ।त्रयोप्याचार्य्यसेवादौ विकल्प्यन्ते निजेच्छया । आयुर्दायेतु नाक्षत्री वार्हस्पत्योऽधिवत्सरः । चान्द्राणां प्रभवादीनांपञ्चके पञ्चके युगम् । संपरीदादन्वित्येच्छब्दपूर्वास्तुवत्सराः । तिलो यवो वस्त्रधान्ये रजर्त दीयतेऽत्र तु ।उग्रे कर्म्मणि शान्ते च स्तोऽयने दक्षिणोत्तरे । वसन्ता-द्यृतवो द्वेधा चान्द्राः सौराश्च चान्द्रकाः । चैत्राद्याअथ मीनाद्या मेषाद्या वा विवस्वतः । तेष्वाधानादय-स्तद्वत् षण्मूर्त्तिव्रतपूजनम् । मासास्तु सावनः सौर-श्चःन्द्रो नाक्षत्र इत्यमी । दर्शान्तः पूर्णिमान्तो वा चा-न्द्रोऽसौ विप्रवैश्ययोः । सौरोराज्ञः सावनस्तु यज्ञेज्यौतिषिके परः । माघादिमासभेदेषु तिलदानादयःस्मृताः । चान्द्रोऽधिमासोऽसंक्रान्तः सोन्तर्भवति चोत्तरे ।असंक्रान्तावेकवर्षे द्वौ चेत्संसर्पआदिमः । क्षयमासोद्विसंक्रान्तः स चाहर्पतिसंज्ञकः । एतौ त्याज्यौ विवा-हादौ संसर्पाहर्पती उभौ । शुद्धौ श्रौते तथा स्मार्त्तेमलमासो विविच्यते । काम्यारम्भं तत्समाप्तिं मलमासेविवर्जयेत् । आरब्धं मलमासात् प्राक्कृच्छ्रसत्रादिकंच यत् । तत्समाप्यं सावनस्य मासस्यानतिलङ्घनात् ।आरम्भस्य समाप्तेश्च मध्ये चेत् स्यात् मलिम्लुचः । प्रवृत्त-मखिलं काम्यं तदानुष्ठेयमेव तु । कारीर्यादि तु यत्काम्यं तस्यारम्भसमापने । कार्य्यकालविलम्बस्य प्रती-क्षाया असम्भवात् । अनन्यगतिकं नित्यमग्निहो-त्रादि न त्यजेत् । गत्यन्तरयुतं नित्यं सोमयागादिवर्जयेत् । अगति ग्रहणस्नानं जातेष्टि, र्गतिसंयुतम् ।द्वयं गैमित्तिकं तस्य व्यवस्था नित्यवन्मता । शुद्धमासमृतानां स्यान्मलिने प्रथमाव्दिकम् । मलमासमृता-नान्तु मले स्यादाविद्कान्तरम् । दैवे मुख्यः शुक्लपक्षःकृष्णः पित्र्ये विशिष्यते । तृतीये तु ३ प्रकरणेषर्णिता प्रतिपत्तिथिः । प्रतिपन्नाम विज्ञेया चन्द्रस्यप्रथमा कला । शुक्लपक्षे विशेच्चन्द्रं कृष्णपक्षे विनिः-सरेत् । शुद्धा विद्धा तिथिः शुद्धा हीनातिथ्यान्ययाहनि ।उदये पूर्वया तिथ्या विध्यते त्रिमुहुर्त्तकैः । सायन्तूत्तर-या तद्वन्न्यूनया तु न विध्यते । वेध्यापि त्रिमुहूर्त्तैवन न्यूना वेधमर्हति । शुद्धायां नास्ति सन्देहो दैवे पित्र्येच कर्म्मणि । उपवासश्चैकभक्तं नक्तं चायाचितंव्रतम् । दानञ्च षड्विधं दैवं क्रमादत्र विविच्यते । एकोद्दिष्टंपार्वणञ्च पित्र्यं द्विविधमीर्यते । शुक्लपक्षे दर्शविद्धाकृष्णे विद्धा द्वितीयया । उपोष्या प्रतिपच्छुक्ले मुख्यास्यादापराह्णिकी । तदभावे तु सायाह्णव्यापिनी परि-गृह्यताम् । प्रातःसंगवमध्याह्नापराह्णाः सायमि-त्यसौ । अत्राह्नां पञ्चधा भागो मुख्यो द्वित्र्यादिभागतः ।अभावेऽपि प्रतिपदः संकल्पः प्रातरिष्यते । तिथिस्त्रिया-मतोऽर्वाक् चेत् तिथ्यन्ते पारणं भवेत् । वह्न्युत्सवं चपूर्वेद्युरुपवासवदाचरेत् । मुख्यतिथ्यन्तराये तु तिथिशे-षोऽपि गृह्यताम् । शुद्धाऽधिका तु कृष्णापि पूर्वा संपूर्त्ति-संभवात् । ग्रहीतव्या त्वेकभक्ते मध्याह्नव्यापिनी तिथिः ।परेद्युरेव पूर्वेद्युरेव व्याप्तिर्दिमद्वये । नोभयत्रोभयत्रांशेसाम्यं वैषम्यमित्यमी । षट् पक्षास्तेषु चैकैकव्याप्तौसैवात्र गृह्यताम् । द्विनद्वयेऽपि तद्व्याप्तावव्याप्तौ चैक-देशतः । समव्याप्तौ च पूर्वैव वैषम्ये त्वधिकेष्यताम् ।अन्याङ्गस्यैकभक्तस्य कालस्त्वङ्ग्यनुसारतः । उपवासप्रतिनिधेस्तिथिः स्यादुपवासवत् । प्रदोषव्यापिनी नक्तेतिथिर्व्याप्तिर्दिनद्वये । अव्याप्तिर्वाथवांशेन व्याप्तिः स्यात्सर्वथोत्तरा । सौरनक्ते तु सायाह्नव्यापिनी न प्रदो-षगा । अयाचिते तु तिथयः स्वीकार्य्याः उपवासवत् ।सोदयत्रिमुहूर्त्तायां कुर्याद्दानं व्रतानि च । उभयत्रतथात्वे तु पूर्वेद्युस्तदनुष्ठितिः । परत्रैव तथात्वं चेत्पूर्वा ग्राह्या तिथिक्षये । तिथेः साम्ये च वृद्धौ चगृह्यतां तिथिरुत्तरा । अस्पर्शे चैकदेशस्य व्याप्तौ पूर्वैवगृह्यताम् । एकोद्दिष्टे तु मध्याह्नयुक्ता स्यादेकमक्त-वत् । एकदेशे समव्याप्तौ क्षये पूर्वाऽन्यथोत्तरा । कुतपाद्यपराह्णस्य व्याप्तिराव्दिक उत्तमा । तदभावेऽपराह्णस्यव्यापिका गृह्यतां तिथिः । क्षये पूर्वोत्तरा वृद्धौ व्याप्तिश्चे-दपराह्णयोः । न ग्राह्यतिथिगौ वृद्धिक्षयावूर्द्ध्वतिथेस्तुतौ । साम्ये त्वर्द्धतिथेर्ग्राह्या परविद्धैव वृद्धिवत् । नस्पृशत्यपराह्णौ चेत् पूर्वा स्यात् कुतपो वृथा । वैष-म्येणैकदेशस्य व्याप्तौ ग्राह्या महत्त्वतः । साम्येन चेत् क्षयेपूर्वा परा स्याद्वृद्धिसाम्ययोः । वृद्धिसाम्यक्षया ग्राह्यतिथिगा नोर्द्ध्वगा इह । ४ द्वितीयाद्यास्तु पर्वान्तास्तुर्य्य-प्रकरणोदिताः । सञ्चारणीयः सामान्यतिथिषु प्रति-पन्नयः । क्वचित् क्वचिद्विशेषोऽस्ति सोऽयमत्राभिधीयते ।पूर्वेद्युरसती प्रातः परेद्युस्त्रिमुहूर्त्तगा । सा द्वितीयापरोपोष्या पूर्वविद्धा ततोऽन्यथा । रम्भातृतीया पूर्वा-स्यादुत्तरा स्याद् व्रतान्तरे । परेऽह्नि नास्ति चेत् पूर्व-विद्धाप्यस्तु व्रतान्तरे । मुहूर्तमात्रसत्त्वेऽपि दिने गौरी-व्रतं परे । शुद्धाधिकायामप्येवं गणयोगप्रशंसनात् ।चतुर्थी तु परोपोष्या गणनाथव्रतस्य तु । मध्याह्नव्या-पिनी पूज्या तद्वन्नागचतुर्थ्यपि । परेद्युरेव मध्याह्न-व्याप्तौ विघ्नस्य सोत्तरा । अन्यथा पूर्वविद्धैव मातृयोग-प्रशस्तितः । पूर्वेद्युरेव तद्व्याप्तौ पूर्वा सर्पप्रिया तिथिः ।नो चेत् सर्पस्य पञ्चम्या योगेऽत्यन्तं प्रशस्यते । गौर्याःशुद्धाजयायुक्ता, नागविद्धा निषिद्ध्यते । सर्वत्र पञ्चमी पूर्वाग्राह्या स्कन्दव्रते परा । नागविद्धा स्कन्दषष्ठी सा निषिद्धाव्रतान्तरे । उत्तरस्या अलाभे तु नागविद्धापि गृह्यताम् ।विनाशाद्वा परेऽभावात् नागविद्धा न दोषकृत् । सप्तमीपूर्वविद्धैव व्रतेषु निखिलेष्वपि । अलाभे पूर्वविद्धायाः पर-विद्धापि गृह्यताम् । व्रतमात्रेऽष्टमी कृष्णा पूर्वा शुक्ला-ष्टमी परा । दूर्वाष्टमी तु शुक्लापि पूर्वविद्धा विधीयते ।पक्षद्वयेऽप्युत्तरैव शिवशक्तिमहोत्सवे । ज्येष्ठर्क्षयोगे पूर्वैवग्राह्या ज्येष्ठाव्रते तिथिः । मध्याह्नादूर्द्ध्वमृक्षं चेत् परे-द्युः सा प्रशस्यते । ज्येष्ठर्क्षभानुवाराभ्यां युक्ताष्टम्पति-दुर्लभा । जयन्त्याख्यं व्रतं भिन्नं कृष्णजन्माष्टमीव्रतात् ।शुद्धा च सप्तमी विद्धेत्येवं जन्माष्टमी द्विधा । सप्तमीचेन्निशीथात्प्राग्विद्धा शुद्धान्यथा भवेत् । शुद्धायां नास्तिसन्देहो विद्धा च त्रिविधेष्यते । निशीथयोगः पूर्वेद्युःपरेद्युर्वा द्वयोरुत । पूर्वैव प्रथमे पक्षे परैवोत्तरपक्षयोः ।अष्टमी रोहिणी शुद्धा जयन्ती सा चतुर्विधा । शुद्धाशुद्धाधिकेत्येवं विद्धाविद्धाधिकेति च । शुद्धायामपिविद्धायां न सम्भाव्योत्तरा तिथिः । शुद्धाधिकायांयोगः स्यादेकस्मिन्वा दिनद्वये । नैकयोगेऽस्ति सन्दे होद्वियोगे प्रथमं दिनम् । सदा निशीथे पश्चाद्वेत्युत्तमोमध्यमोऽधमः । योगस्त्रिधापि पूर्वेद्युः सम्पूर्णत्वादुपो-षणम् । विद्धाधिकायामप्येकदिनयोगे स गृह्यताम् ।द्वयोर्योगस्त्रिधा भिन्नो निशीथे वृत्तिभेदतः । तद्वृत्ति-र्दिन एकस्मिन्नुभयोर्नौमयोरिति । एकस्मिंश्चेत् तद्दिनंस्यात् पक्षयोरन्त्ययोः परा । बुधे सोमे जयन्ती चेद्वारेसातिफलप्रदा । तिथ्यृक्षयोर्द्वयोरन्ते उत्तमं पारणंभवेत् । एकस्यान्ते मध्यमं स्यादुत्सवान्तेऽधमं स्मृतम् ।यस्मिन् वर्षे जयन्त्याख्यो योगो जन्माष्टमी तदा । अन्त-र्भूता जयन्त्यां स्यादृक्षयोगप्रशस्तितः ।नवमी पूर्वबिद्धैव पक्षयोरुभयोरपि । मध्याह्ने रामनवमीपुनर्वसुसमन्विता । ग्राह्या नैवाष्टमीयुक्ता सनक्षत्वापि वै-ष्णवैः । कृष्णा पूर्वोत्तरा शुक्ला दशम्येव व्यवस्थिता । जय-न्तीव्रतवन्नित्यं काम्यं चैकादशीब्रतम् । अरुणोदयवेधोऽत्रवेधः सूर्य्योदये तथा । उक्तौ द्वौ दशमीवेधौ वैष्णव-स्मार्त्तयोः क्रमात् । कलाकाष्ठादिवेधोऽपि ग्राह्योऽत्र त्रि-मुहूर्त्तवत् । वैखानसाद्यागमोक्तदीक्षां प्राप्तो हि वै-ष्णवः । विद्धा त्याज्या वैष्णवेन शुद्धाप्याधिक्यसम्भवे । एका-दशी द्वादशी वाधिका चेत्त्यज्यतां दिनम् । पूर्वं त्याज्यमुत्तरं स्यादिति वैष्णवनिर्णयः । एकादशी द्वादशी चेत्यु-भयं वर्द्धते यदा । तदा पूर्बदिनं त्याज्यं स्मार्त्तैर्ग्राह्यंपरं दिनम् । एकादशीमात्रवृद्धौ गृहियत्योर्ध्यवस्थितिः ।उपोष्या गृहिभिः पूर्वा यतिभिस्तूत्तरा तिथिः । द्वा-दशीमात्रवृद्धौ तु शुद्धाविद्धे व्यवस्थिते । शुद्धा पूर्वो-त्तरा विद्धा स्मार्तनिर्णय ईदृशः । श्रवणेन युता चेत्स्याद्द्वादशी सा हि वैष्णवैः । स्मार्त्तैश्चोपोषणीया स्यात्-त्यजेदेकादर्शी तदा । उपवासव्रतादन्यव्रते सार्द्धमुहूर्त्तकैः ।सप्तभिर्दशमीविद्धामेतामेकादशीं त्यजेत् । द्वादशी पूर्व-विद्धैव निखिलेषु व्रतेष्वपि । शुक्लत्रयोदशी पूर्वा पराकृष्णत्रयोदशी । अलाभे सापि पूर्वैव पराऽनङ्गत्रयोदशी ।या शुक्ला गृह्यते पूर्वा गृह्यतां सापराहिणकी ।चतुर्दश्युत्तरा शुक्ला पूर्वा कृष्णचतुर्दशी । उदये द्विमुहू-र्त्तापि ग्राह्यानन्तव्रते तिथिः । शुक्लापि रात्रियुक्तास्याच्चैत्रश्रावणमासयोः । शुक्ला सर्वापि पूर्वैव यदि स्या-दापराहिणकी । प्रदेषे वा निशीथे वा द्वयोर्वा यास्तिसा भवेत् । शिवरात्रिव्रते तत्र द्वयोः सत्ता प्रशस्यते ।तदभावे निशीथेकव्याप्तापि परिगृह्यताम् । तस्याश्चास-म्भवे ग्राह्या प्रदोषव्यापिनी तिथिः । तिथ्यन्ते पारणंयामत्रयादर्वाक् समापने । अन्यथा पारणं प्रातरन्य-तिथ्युपवासवत् । पूर्वविद्धैव सावित्रीव्रते पञ्चदशी तिथिः ।नाड्योऽष्टादश भूतस्य स्युश्च तत्र परेऽहनि । व्रतान्तराणिसर्वाणि परेऽहन्येव सर्वदा । श्राद्धेऽपराह्णकालीनो दर्शआव्दिकवन्मतः । दिनद्वयेऽप्येकदेशवृत्तौ ग्राह्योमहत्त्वतः । तुल्यत्वं चेदेकदेशक्षये पूर्वोऽन्यथोत्तराः ।कृत्स्नव्याप्तौ द्वयोरह्नोरुत्तरस्तिथिवृद्धितः । साग्न्यनग्नि-व्यवस्था स्यान्न चेत् स्यादपराह्णयोः । पूर्वेद्युः सा-ग्निकः कुर्य्यादुत्तरेद्युर्निरग्निकः । पर्वप्रतिपदोः सन्धिर्म-ध्याह्ने वा ततः पुरा । अन्वाधानं पूर्वदिने यागःसन्धिदिने भवेत् ॥
ऊर्द्ध्वं मध्याह्नतः सन्धावन्वाधानंतु तद्दिने । इष्टिं परदिने कुर्य्यादन्यो वाजसनेयिनः ।यस्तु वाजसनेयी स्यात्तस्य सन्धिदिनात् पुरा । न क्वाप्य-न्वाहितिः किन्तु सदा सन्धिदिने हि सा । सन्धिश्चेत्सङ्गवादूर्द्ध्वं प्राक्चेदावर्त्तनाद्रवेः । सा पौर्णमासी विज्ञेयासद्यस्कालविधौ तिथिः । वृद्धिः प्रतिपदोयास्ति तदूर्द्ध्वंपर्वणि क्षियेत् । क्षयस्यार्द्धं तथा हित्वा सन्धिर्निश्ची-यतां तदा । वौधायनमते दर्शश्राद्धं चेष्टिर्विशिष्यते ।द्वितीया त्रिमुहूर्त्ता चेत् प्रतिपद् चापराह्णिकी । अन्वा-धानं चतुर्दश्यां दर्शस्यान्तेऽपि वर्त्तयेत् । दर्शश्राद्धं तथाकार्य्यमिति वौधायनोदितम् । इष्ट्यादिविकृतिः सर्वापर्वण्येवेति निर्णयः” ५ प्रकरणे नक्षत्रनिर्णयो विस्तर-भयान्न दर्शितः ।दर्शादिश्राद्धेऽन्यत्र चोक्तं यथा“दर्शो यत्रापराह्णं स्पृशति स दिवसः श्राद्धकालोद्व-योश्चेद्यत्रानल्पो यदासौ यदि भवति समः क्षीयमाणेतु पूर्वः । वृद्धौ साम्ये त्वनग्नेर्युवतिवृषलयोश्च श्वएवाहिताग्नेः पूर्वो न क्वापराह्णं स्पृशति कुत-पसंस्पर्शतोऽयं विधिः स्यात् । सायन्तन्यपरत्र चेन्मृ-ततिथिः सैवाव्दिके मासिके ग्राह्या सा द्व्यपराह्ण-योर्यदि तदा यत्राधिका सा मता । तुल्या चेदुमयाप-राह्णसमये पूर्वा न चेत् सङ्गये पूर्वैव त्रिमुहूर्त्तगास्त-समये नो चेत् परैवोचिता” ।तिथिविशेषकृत्ये खण्डतिथिविशेषग्रहणं तंत्तच्छब्दे उक्तंवक्ष्यते च । तिथितत्त्वादौ दृश्यम् ।प्रतिपदातिथिविशेषाणामुभयदिनव्याप्त्यादौ निर्णयःनिर्णयसिन्धौ दर्शितो यथा“शुक्लप्रतिपदपराह्णव्यापित्वे पूर्वा ग्राह्या युग्मवा-क्यात् प्रतिपत्सम्मुखी कार्या या भवेदापराह्णिकीति”स्कान्दोक्तेः “शुक्ला स्यात् प्रतिपत्तिथिः प्रथमतश्चेत्सापराह्णे भवेदिति” दीपिकोक्तेश्च । अपराह्णश्चपञ्चधा भक्ते दिने चतुर्थो भागः । तदभावे सायाह्नव्या-पिनी ग्राह्या “तदभावे तु सायाह्नव्यापिनी परिगृह्यता-मिति” माधवोक्तेः कृष्णा तु परा “कृष्णा तूत्तरतो-ऽखिलेति” दीपिकोक्तेः कृष्णापि पूर्वैवेत्यनन्तभट्टाः ।द्वितीया तु कृष्णा पूर्वा शुक्लोत्तरा इति हेमाद्रिः, कृष्णाद्वितीयादिमा “पूर्वाह्णे यदि सा सिता तु परतः सर्वा” इतिदीपिकोक्तेः माधवानन्तभट्टमते तु सर्वापि द्वितीया परातथा च माधवः “पूर्वेद्युरसती प्रातः परेद्युस्त्रिमुहूर्त्तगा ।सा द्वितीया परोपोष्या पूर्वविद्धा ततोऽन्यथा” इतितृतीया तु सर्वमते रम्भाव्यतिरिक्ता परैव तेन युग्म-वाक्यं रम्भाव्रतविषयम् “रम्भाख्यां वर्जयित्वा तु तृतीयांद्विजसत्तम! अन्येषु सर्वकार्य्येषु गणयुक्ता प्रशस्यतइति ब्रह्मवैवर्तात् गौरीव्रते तु विशेषमाह माधवः“मुहूर्त्तमात्रसत्त्वेऽपि दिने गौरीव्रतं परे । शुद्धाधि-कायामप्येवं गणयोगप्रशंसनादिति” ।चतुर्थ्यपि सर्वमते गणेशव्रतातिरिक्ता परैव युग्मवा-क्यात् “एकादशी तथा षष्ठी अमावास्या चतुर्थिका ।उपोष्याः परसंयुक्ताः पराः पूर्वेण संयुताः” इति माध-वीये वृहद्वसिष्ठोक्तेश्चनागचतुर्थी तु मध्याह्नव्यापिनी पञ्चमीयुता च ग्राह्याइति निर्णयामृते माधवीये चोक्तम् “युगं मध्यंदिने यत्रतत्रोषोष्य फणीश्वरान् । क्षीरेणाप्याय्य पञ्चम्यां पूजयेत् प्र-यतो नरः । विषाणि तस्य नश्यन्ति न तान् हिंसन्ति प-न्नगाः” इति माधवीये देवलोक्तेः युगं चतुर्थी । पूर्वत्रमध्याह्नव्याप्तौ पूर्वा अन्यपक्षेषु परैव पञ्चम्यां पूजोक्तेःगणेशव्रते तृतीयायुतैव चतुर्थी “चतुर्थी तु तृतीयायांमहापुण्यफलप्रदा । कर्तव्या व्रतिभिर्वत्स! गणनाथसुतोषिणी” इति हेमाद्रौ व्रह्मवैवर्त्तात् । माधवोये तुगणेशव्रते “मध्याह्नव्यापिनी मुख्या” चतुर्थी गणनाथस्यमातृविद्धा प्रशस्यते । मध्याह्नव्यापिनी चेत् स्यात् परत-श्चेत् परेऽहनि” इति वृहस्पतिवचनात् “प्रातः शुक्ल-तिलैः स्नात्वा मध्याह्ने पूजयेन्नृप!” इति “तत्कल्पेऽभि-धानाच्च तेन परदिने तथान्वे परा अन्यथा पूर्वेत्युक्तम् वस्तु-तस्तु यत्र भाद्रशुक्लचतुर्थ्यादौ गणेशव्रतविशेषे मध्याह्न-पूजोक्ता तद्विषयाण्येव प्रागुक्तवचनानि न तु सार्वत्रि-काणि । संकष्टचतुर्थ्यादौ बहूनां कर्मकालानां बाधापत्तेःतेन सर्वत्र गणेशव्रते पूर्वैवेति सिद्धम् । संकष्टचतुर्थी तुचन्द्रोदयव्यापिनी ग्राह्या दिनद्वये तथात्वे मातृयोगस्यसत्त्वात् पूर्वेति केचित् । अन्ये तु मुहूर्त्तत्रयादिरूपस्यतृतीयायोगस्याभावात्परदिने माधवोक्तमध्याह्नव्यापिस-त्त्वात् संपूर्णत्वाच्च परेत्याचक्षते । दिनद्वये तदभाते तु परैव ।गौरीव्रते तु पूर्वैव । “गणेशगौरीबहुलाव्यतिरिक्ताः प्र-कीर्त्तिताः । चतुर्थ्यः पञ्चमीविद्धा देवतान्तरयोगतः” इतिमदनरत्ने ब्रह्मवैवर्त्तात्पञ्चमी तु माधवमते सर्वापि पूर्वा “चतुर्थीसं-युता कार्या पञ्चमी परया न तु । दैवे कर्मणिपित्र्ये च शुक्लपक्षे तथा सितेति” हारोतोक्तेःहेमाद्रिमते तु कृष्णा पूर्वा सिता परा “कृष्णा पूर्वयुतासिता परयुता स्यात् पञ्चमी” इति दीपिकोक्तेः वस्तुतस्तुहारीतोक्तिरुपवासविषया “प्रतिपत्पञ्चमी चैव सावित्री-भूतपूर्णिमा । नवमी दशमी चैव नोपोष्याः परसंयुताः”इति व्रह्मवैवर्तात् यत्तु “पञ्चमी तु प्रकर्तव्या षष्ठ्या युक्तातु नारद!” इत्यापस्तम्बीयम् तत् स्कन्दव्रतपरम् “स्क-न्दोपवासे स्वीकार्या पञ्चमी परसंयुता” इति वाक्यशेषा-दिति माधवः तन्नागपूजाविषयमित्यनन्तभट्टनिर्णयामृता-दयः । चमत्कारचिन्तामणौ च “पञ्चमी नागपूजायांकार्या षष्ठीसमन्विता । तस्यान्तु तुषिता नागा इतरासचतुर्थिका” इति तेन नागपूजादौ परैव । यत्तु मदन-रत्नदिवोदासीययोः श्रावणपञ्चम्यतिरिक्ता पूर्वेत्युक्तं“श्रावणे पञ्चमी शुक्ला संप्रोक्ता नागपञ्चमी । तां परि-त्यज्य पञ्चम्यश्चतुर्थीसहिता हिताः” इति संग्रहोक्तेः, “गणेशस्कन्दयोगाभ्यां क्रमान्नागः शुभाशुभः । मित्रा-मित्रे तयोः पत्रे नागानामाखुबर्हिणौ” इति षट्त्रिंश-न्मताच्च श्रावणपञ्चम्यतिरिक्तायाः नागपञ्चम्याश्चतुर्थीयुत-त्वमुक्तं तदुपवासादिविषयम् । पत्रे वाहने ।षष्ठी सर्वमते स्कन्दव्रतातिरिक्ता परैव युग्मवाक्यात्“नागविद्धा न कर्तव्या षष्ठी चैव कदाचन” इति स्कान्दाच्चनिर्णयामृते “षष्ठी च सप्तमी चैव वारश्चेदंशुमालिनः ।योगोऽयं पद्मको नाम सूर्य्यकोटिग्रहैः समः” ।सप्तमी पूर्वैव युग्मवाक्यात् “षष्ठ्या युता सप्तमी चकर्तव्या तात! सर्वदा” इति स्कान्दाच्च ।अष्टमी तु सर्वमते कृष्णा पूर्वा सिता परा “व्रत-मात्रेऽष्टमी कृष्णा पूर्वा शुक्लाष्टमी परा” इतिमाधवोक्तेः “परयुक् शुक्लाष्टमी पूर्वयुक् कृष्णा” इतिदोपिकोक्तेश्च शिवशक्त्युत्सवे तु कृष्णाप्युत्तरा“पक्षद्वयेऽप्युत्तरैव शिवशक्तिमहोत्सवः” इति माध-वोक्तेः दिवोदासीये भविष्ये “यदा यदा सिताष्टम्याबुधवारो भवेत् क्वचित् । तदा तदा हि सा ग्राह्याएकभक्ताशने नृप! । सन्ध्याकाले तथा चैत्रे पसुप्ते चजनार्दने । बुधाष्टमी न कर्तव्या हन्ति पुण्यं पुरातनम्”अन्त्यं पद्यं हेमाद्रौ न धृतम् ।नवमी तु सर्वमते पूर्वा युम्मवाक्यात् “न कुर्य्या-न्नवमीं तात! दशम्या तु कदाचन” इति स्कान्दाच्च ।दशमी पूर्वा परा वेति हेमाद्रिः “कृष्णा पूर्वोत्तराशुक्ला दशम्येवं व्यवस्थिता” इति माधवः वस्तुतस्तुमुख्या नवमीयुतैव ग्राह्या “दशमी तु प्रकर्तव्यासदुर्गा द्विजसत्तम!” इत्यापस्तम्बोक्तेः यत्तु “संपूर्णादशमी कार्या पूर्वया परयाऽथ वा” इत्यग्निरसोक्तंतन्नवमीयुक्ताऽलाभे औदयिकी ग्राह्येत्येवं नेयम्” ।एकादशीनिर्णयस्तु कालमाधवीयानुसारेण एकादशीशब्दे१४८८ पृ० उक्तः । महाद्वादश्यादिनिर्णयः नि० सि० यथा“अथाष्टौ महाद्वादश्यः तत्र शुद्धाधिकैकादशीयुक्ता द्वादशीउन्मीलिनी १ संज्ञा द्वादश्येव शुद्धाधिका वर्द्धते चेत्सावञ्जुली २ वासरत्रयस्पर्शिनी त्रिस्पृशा ३ अग्रे पर्वणः संपू-र्णाधिकत्वे पक्षवर्द्धिनी ४ । पुष्पर्क्षयुता जया ५ श्रवणयुताविजया ६ पुनर्वसुयुता जयन्ती ७ रोहिणीयुता पापनाशिनी ८एताः पापक्षयमुक्तिकाम उपवसेत् । अत्र मूलं हेमाद्रौ ज्ञे-यम् । एकादशीद्वादश्योरेकाहे तन्त्रेणोप्रवासः, पार्थक्येतु शक्तस्योपवासद्वयम् “एकादशीमुपोष्यैव द्वादशीं समु-पोषयेदिति विष्णुरहस्यात् अशक्तौ तु द्वादश्यामेव“एवमेकादशीं त्यक्ता द्वादशीं समुपोषयेत् । पूर्ववासरजंपुण्यं सर्वं प्राप्नोत्यसंशयमिति” तत्रैवौक्तेः । यदा त्वल्पाद्वादशी तदोक्तं मात्स्ये “यदा भवति स्वल्पापि द्वादशीपारणादिने । ऊषःकाले द्वयं कुर्य्यात्प्रातर्माध्याह्निकं तदा ।नारदीयेऽपि “अल्पायामथ विप्रेन्द्र! द्वादश्यामरुणोदये ।स्नानार्चनक्रियाः कार्य्या दानहोमादिसंयुताः” इति सङ्कटेतु माधवीये देवलः “सङ्कटे विषमे प्राप्ते द्वादश्यां पारयेत्-कथम् । अद्भिस्तु पारणात् कुर्य्यात् पुनर्भुक्तं न दोष-कृदिति” । सङ्कटे त्रयोदशीश्राद्धप्रदीषादौ । अत्र केचिदाहुःअपकर्षवाक्यान्यनाहिताग्निविषयाणि अग्निहोत्रादीनांश्रौतत्वेनापकर्षायोगादिति । द्वादश्यां च प्रथमपादम-तिक्रम्य पारणं कार्य्यम् “द्वादश्याः प्रथमः पादो हरि-वासरसंज्ञितः । तमतिक्रम्य कुर्वीत पारणं विष्णुतत्परः”इति निर्णयामृते मदनरत्ने च विष्णुधर्मोक्तेः । अत्रकेचित् सङ्गिरन्ते यदा भूयसी द्वादशी तदापि प्रातर्मु-हूर्त्तत्रये पारणं कार्य्यम् “सर्वेषामुपवासानां प्रातरेव हिपारणमिति” वचनादिति । अस्मद्गुरवस्तु बहूनां कर्म्म-कालानां विना कारणं बाधापत्तेः प्रागुदग्वचनैश्च अल्प-द्वादश्यामेवापकर्षविघानादपराह्ण एव कार्य्यम् । प्रातःशब्दस्तु “सायं प्रातर्द्विजातीनामशनं श्रुतिचोदितमिति”वदपराह्णवाचित्वेऽप्युपपन्नः न च वाक्यवैयर्थ्यं पुन-र्भोजनसायंपारणनिवृत्त्यर्थत्वात्तस्येत्याहुः । प्रमादेन एका-दश्युपवासातिक्रमे अपरार्के वाराहे “एकादशी विप्लुताचेद्द्वादशीपरतः स्थिता । उपोष्या द्वादशी तत्र यदी-च्छेत्परमं पदमिति” कैश्चित्तु वैष्णवं पदमिति पठि-तम् अत्राविरोधिनो नियमाः सर्वव्रतेषु बोद्धव्याः ।अन्ये च नवरात्रे वक्ष्यन्ते इति दिक् ।द्वादशी तु पूर्वैव युग्मवाक्यात् द्वादशी तु प्रक-र्त्तव्या एकादश्या युता प्रभो!” इति स्कान्दाच्च ।त्रयोदशी तु सर्वमते शुक्ला पूर्वा, कृष्णोत्तरा “त्रयो-दशतिथिः पूर्वः सितोऽथाऽसितः पश्चादिति” दीपिकोक्तेः“शुक्ला त्रयोदशी पूर्वा परा कृष्णा त्रयोदशीति” माधवीयाच्चचतुर्दशी सर्वमते कृष्णा पूर्वा, शुक्लोत्तरा, उपवासेतु द्वय्यपि परेति मदनरत्ने ।पौर्णमास्यमावास्ये तु सावित्रीव्रतं विना परे ग्राह्ये“भूतविद्धे न कर्त्तव्ये दर्शपूर्णे कदाचन । वर्जयित्वामुनिश्रेष्ठ! सावित्रीव्रतमुत्तममिति” ब्रह्मवैवर्त्तात्“अमायां योगविशेषमाहाऽपरार्के शातातपः “अमा-वस्यां भवेद्वारो यदा भूमिसुतस्य वै । जाह्नवीस्नान-मात्रेण गोसहस्रफलं लभेत्” ।“अमा वै सोमवारेण रविवारेण सप्तमी । चतुर्थी भौम-वारेण विषुवत्सदृशं फलम्” तत्रैव व्यासः “सिनीवालीकुहूर्वापि यदि सोमदिने भवेत् । गोसहस्रफलं दद्यात्स्नानं वै मौनिना कृतम्” । हेमाद्रौ वृहन्मनुः “श्रवणाश्विधनिष्ठार्द्रानागदैवतमस्तके । यद्यमा रविवारेण व्यतीपातः स उच्यते” । नागदैवतम् अश्लेषा मस्तको मृग-शिरः । प्रथमपाद इत्यन्ये स च सर्वेषाम्” ।सर्वतिथिषु वर्ज्यान्याह मुहूर्त्तदीपिकायाम्“कुष्माण्डं वृहतीफलानि लवणं वर्ज्यं तिलाम्लं तथातैलं चामलकं दिवं प्रवसता शीर्षं कपालान्त्रकम् । निष्पा-वांश्च मसूरिकान् फलमथो वृन्ताकसंज्ञं मधु द्यूतं स्त्रीग-मनं क्रमात् प्रतिपदादिष्वेवमाषोडशात्” “शीर्षं नारिके-लम्, कपालम् अलाबु, अन्त्रं पटोलकम्” भूपालः “कुष्माण्डं-वृहतीक्षारं मूलकं पनसंफलम् । धात्री शिरः कपालान्त्रंनखचर्म्मतिलानि च । क्षुरकर्माङ्गनासेवां प्रतिपत्प्रभृतित्यजेत् । नखं शिम्बी चर्म मसूरिका प्रतिपदादितिथिषुकुष्माण्डादिभक्षणफलं चोक्तं तिथितत्त्वे स्मृत्या यथा“कुष्माण्डे चार्थहानिः स्याद्वृहत्यां न स्मरेद्धरिम् ।बहुशत्रुः पटोले स्याद् धनहानिस्तु मूलके । कलङ्कीजायते विल्वे तिर्य्यग्योनिश्च निम्बके । ताले शरीर-नाशः स्यात् नारिकेले च मूर्खता । तुम्बी गोमांसतुल्यास्यात् कलम्बी गोबधात्मिका । शिम्बी पापकरी प्रोक्तापूतिका ब्रह्मघातिका । वार्त्ताकौ सुतहानिः स्यात्चिररोगी च माषके । महापापकरं मांसं प्रतिपदादिषुवर्जयेत्” ।प्रसङ्गात्तिथिसाधनप्रकारः सि० शि० उक्तो दर्श्यते यथा“रवि १२ रसै ६ र्विरवीन्दुलवाहृताः फलमितास्तिथयःकरणानि च । कुरहितानि च तानि बवादितः शकु-नितोऽसितभूतदलादनु । ग्रहकलाः सरवीन्दुकलाहृताः खखगजै ८०० श्च भयोगमितिः क्रमात् । अथहृता स्वगतैष्यविलिप्तिक्ताः स्वगतिभिश्च गतागतनाडिकाः”मू० । “व्यर्केन्दोर्भागा द्विष्ठाः । एकत्र रवि १२ भिर्भा-ज्यास्तत्र फलं गतास्तिथयः । अन्यत्र रसै ६ र्भाज्याः ।फलं गतकरणानि । तानि त्वेकोनानि बवादितोभवन्ति । कृष्णचतुर्दश्यर्द्धादुपरि यान्यवशिष्यन्ते त्रीणिचतुर्थं प्रतिपत्प्रथमार्धे च । एतानि चत्वारि शकुनितः ।शकुनिचतुष्यादनागकिन्तु(किंस्तु)घ्नानीति शेषः । यस्यग्रहस्य नक्षत्रं ज्ञातुमिष्यते तस्य कलाः कार्य्याः । तथाचन्द्रार्कयोगस्य कलाः कार्य्याः । उभयत्र शताष्टकेन ८००हृते प्रथमस्थाने गतभानि द्वितीयस्थाने गतयोगाः ।अथ यान्यवशिष्टानि तानि गतानि । तानि स्वस्वह-रच्युतानि गम्यानि स्युः । तेषां गतानां सम्बन्धिन्योविकलाः स्वस्वगतिभिर्भाज्याः । यल्लभ्यते ता गतघ-टिका भवन्ति । यद्येष्याणां विकला भक्तास्तदैष्याघटिका भवन्ति । अत्रोपपत्तिः । यदि व्यर्केन्दोश्चक्रांशै३६० स्त्रिंशत् तिथयी लभ्यन्ते तदैभिः किमिति ।अत्र त्रिंशतापवर्तिते हरे जातो द्वादश हरः । अथयदि चक्रांशैः ३६० षष्टिः ६० करणानि लभ्यन्तेतदैभिः किमिति । अत्रापि षष्ट्यावर्तिते जातो हरःषण्मितः । अथ यदि चक्रकलाभिः २१६०० सप्तविंश-तिर्भानि लभ्यन्ते योगा वा तदेभिः किमिति । अत्रापिसप्तविंशत्यापवर्तने कृते जातोऽष्टशती हर उभयत्र ।अथ घटीकरणार्थमनुपातः । यदि गतिकलाभिः षष्टि-घटिका लभ्यन्ते तदा गतैष्याभिः कलाभिः किमितिफलं गतैष्या घटिकाः । अथ कलाः षष्ट्या गुणिताविकलाः स्युरित्यतः उक्तम् अथ हृताः स्वगतैष्यवि-लिप्तिका इति सर्वमुपपन्नम्” प्रमि० ।सू० सि० तिथ्याद्यानयनप्रकार उक्तो यथा“मभोगोऽष्टशतीलिप्ताः खाश्विशैलास्तथा तिथेः । ग्रह-लिप्ता भभोगाप्ता भानि भुक्त्या दिनादिकम्” सू० सि० ।“अष्टशतमिताः कला नक्षत्रभोगः । प्रसङ्गात् तिथि-भोगमाह । खाश्विशैला इति । तिथेर्विशत्यधिकस-प्तशतमिताः ७२० कलास्तथा भोग इत्यर्थः । यस्य ग्रहस्यनक्षत्रज्ञानमिष्टं तस्य ग्रहस्य राशयस्त्रिंशद्गुण्याअंशा योज्यास्ते षष्टिगुणिताः कला योज्या इति परि-भाषया कला नक्षत्रभोगभक्ताः फलं ग्रहस्य गतन-क्षत्राणि शेषं वर्तमाननक्षत्रस्य गतकलास्तस्मात् तस्यगतदिनाद्यानयनमाह भुक्त्येति । ग्रहस्य कलात्मिकयागत्या शेषदिनादिकं गतं भागहरणेन साध्यमेवं शेषो-नाद्भोगाद्गतिकला भागेनैष्यदिनादिकं साध्यम् । अत्रोप-पत्तिः । भचक्रभोगेण सप्तविंशतिनक्षत्राण्यश्विन्यादीनिग्रहो भुनक्त्यतः सप्तविंशतिनक्षत्राणां चक्रकलाःषट्शतयुतैकविंशतिसहस्रमिता २१६०० भोगस्तदै-कनक्षत्रस्य क इत्यनुपातेनाष्टशतकलाभोगः । एवंतिथेश्चान्द्रमासत्रिंशांशाच्चान्द्रमासस्य सूर्य्यचन्द्रान्तरैक-भगणसिद्धत्वाच्च । त्रिंशत्तिथीनां चक्रकलाभोगस्तदैकतिथेःक इत्यनुपातेन विंशत्यधिकसप्तशतकलाभोगः ७२० ।अथाष्टशतकलाभिरेकं नक्षत्रं तदा ग्रहकलाभिः कि-मित्यनुपातेन फलमश्विन्यादीनि ग्रहभुक्तानि शेषकलाग्रहाधिष्ठितनक्षत्रस्य गतं भोगाद्धीनं तस्यैष्यम् । यदिग्रहगत्यैकं दिनं तदाभीष्टकलाभिः किमित्यनुपातेन तस्यगतैष्यदिवसाद्यं भवति । एवं चन्द्राद्दिननक्षत्रंज्ञेयम्” रङ्गना० । “रवीन्दुयोगलिप्ताभ्यो योगा भभो-रभाजिताः । गता गम्याश्च षष्टिघ्ना भुक्तियोगाप्तना-डिकाः” सू० सि० “सूर्य्यचन्द्रयोगस्य राश्यादिकस्य परिभा-षया याः कलास्ताभ्यो योगा विष्कम्भादयो भभोग-भाजिता भभोगेन पूर्वोक्तेन विभक्ता भवन्ति । एकै-कयोगस्य भभोगमितौ भोगः स प्रत्येकं ताभ्योऽपनीययन्मिताः शुद्धास्तन्मिता योगा गताः । यस्य भोगोन शुद्ध्यति स वर्त्तमान इत्यर्थः । कला भभोगभक्तागता योगास्तदग्रिमो वर्त्तमान इति तात्पर्य्यम् । तस्यशेषं गतं भोगात् पतितमेष्यं ताभ्यां घटिकाद्यानयन-माह । गता इति । गता एष्याः । चः समुच्चये ।कलाः षष्टिगुणिताः कार्य्यास्ताम्यो भुक्तियोगाप्तनाडिकारविचन्द्रकलात्मकग योर्योगेन भजनाल्लब्धा घटिकागतैष्या भवन्ति । अत्रोपपत्तिः । सूर्य्यचन्द्रयोगमि-तस्य ग्रहस्य नक्षत्राणि विष्कम्भादिसञ्ज्ञानि योगो-त्पन्नत्वाद्योगा अतस्तदानयनं पूर्वोक्तवत् । अतएवसूर्य्यचन्द्रगतियोगतुल्यतद्गत्या षष्टिसावनघटिकास्तदागतैष्या कलाभिः का इत्यमुपातेन गतैष्यघटिकानयनंयुक्तमुक्तम्” रङ्गना० । “अर्कोनचन्द्रलिप्ताभ्यस्तिथयोभोगभाजिताः । गता गम्याश्च षष्टिघ्ना नाद्ध्यो भुक्त्य-न्तरोद्धृताः” सू० सि० । “पूर्वार्धव्याख्यानं पूर्वश्लोक-पूर्वार्द्धरीत्या ज्ञेयमुत्तरार्द्धं स्पष्टम् । अत्रोपपत्तिः ।“तिथिभीगकलाभिरेका तिथिस्तदा सूर्य्योनचन्द्रकलाभिःका इत्यनुपातेन फलं गततिथयो वर्त्तमानतिथेर्गतैष्येशेषशेषोनभोगकले ताभ्यां गत्यन्तरकलाभिरनुपातेन गतै-ष्यटिकाः पूर्ववत्” रङ्गना० ।कल्पे तिथिमानमुक्तं सि० शि० यथा“विधिदिने दिनकृद्दिवसाः करेन्द्रियशरेषुभुवोऽर्वुदसंगुणाः । नवनवाङ्ककराभ्ररसेन्दवः प्रयुतसंगुणिताविधुवासराः” १६०२९९९००००००० । अत्रोपपत्तिः, रवि-वर्षाणि दिनीकृतानीति सुगमम् । चन्द्रार्कयोर्यावन्तःकल्पे योगास्तावन्तः किल शशिमासाः । ते तु योगाभगणान्तरतुल्याः स्युः । उभयोरपि प्राग्गमनात् ।अतो मगणान्तरतुल्याः शशिमासा भवन्ति । ते त्रिंश-द्गुणाः शशिदिवसा भवन्तीत्युपपन्नम् ।युगे तिथिसंख्या सू० सि० उक्ता यथा ।युग इत्युपक्रमे चान्द्रदिनप्रमाणमाह“चान्द्राः खाष्टखखव्योमखाग्निखर्तुनिशाकराः” सू० सि० ।“अष्टाश्विगजसप्तभूगोनगसप्तपञ्चभूमिता युगे सूर्य्यसा-वनदिवनाः । चान्द्रा दिवसा युगतिथय इत्यर्थः । अशी-तिशून्यचतुष्कत्रिखनृपा एते त्रिंशद्भक्ताश्चान्द्रमासाउक्तप्रायाः । अनेनैव चान्द्रदिवसानामुपपत्तिः सूर्य्य-चन्द्रयोर्भगणयोरन्तरूपचान्द्रमासास्त्रिंशद्गुणिता इतिस्पष्टीकृताः” रङ्गना० ।तिथिभेदे देवभेदपूजा पीयू० धा० धृतवाक्ये नीक्ता यथातत्र नारदः “यद्दिनं यस्य देवस्य तद्दिने तस्य संस्थितिः”अग्निपुराणेऽपि “प्रतिपद्यग्निपूजा स्यात् द्वितीयायाञ्चवेधसः । दशम्यामन्तकस्यापि षष्ट्यां पूजा गुहस्य च ।चतुर्य्यां गणनाथस्य गौर्य्यास्तत्पूर्ववासरे । सरस्वत्या नव-म्याञ्च । सप्तम्यां भास्करस्य च अष्टम्याञ्च चतुर्द्दस्यामेका-दश्यां शिवस्य च । द्वादश्याञ्च त्रयोदश्यां हरेश्च मदनस्यच । शेषादीनां फणीशानां पञ्चम्यां पूजनं भवेत् । पर्वणी-न्दोस्तिथिष्वासु पक्षद्वयगतास्वपीति” ।पञ्चदशसंख्यायां सू० सि० उदा० ।स्त्रीत्वे “वैवाहिकीं तिथिं पृष्टास्तत्क्षणं हरबन्धुना”कुमा० । पुंस्त्वे “निखिलान् निशि पूर्णिमा तिथीनुपतस्थे-ऽतिथिरेकिका तिथिः” नैष० ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
