| YouTube Channel

तिथिसन्धि (tithisandhi)

 
वाचस्पत्यम्
Sanskrit
तिथिसन्धि
पु०
तिथ्योः सन्धिः तिथ्योः पूर्वापरयोःसन्धौ तन्मानानयनं सि० शि० यथा “शशितनुविक-लाभ्यश्चन्द्रभुक्त्येन्दुभान्वोर्गतिविवरकलाभिर्भूय एता-भिरेव पृथगथ गतियुत्या नाडिका सन्धिराप्तातिथिकरणयोगानां फलं तत्र मिश्रम्” ।एवं शशिविम्बकलाभ्यो या घटिका उत्पद्यन्ते ता भ-तिथिकरणयोगानां सन्धिघटिकाः स्युः सन्धौ मिश्रफल-मित्यर्थः अत्र सन्धिरुभयतोऽपि विम्बस्य स्थितत्वात् ।उपपत्तिरप्यत्र सुगमा” प्रमिता०