| YouTube Channel

तिथिक्षय (tithikSaya)

 
शब्दसागरः
English
तिथिक्षय
m.
(-यः) Day of new moon.
E.
तिथि, and क्षय destruction. तिथीनां
तिथ्युपलक्षितचन्द्रकलानां क्षयः क्षयारम्भो-यस्मिन्
Yates
English
तिथि-क्षय (यः) 1.
m.
New moon.
Wilson
English
तिथिक्षय
m.
(-यः) Day of new moon.
E.
तिथि, and क्षय destruction.
Monier Williams Cologne
English
तिथि—क्षय
m.
=
त्र्य्-अह-स्पर्श,
W.
the day of new moon,
W.
pl.
=
-प्रलय,
W.
Apte Hindi
Hindi
तिथिक्षयः
पुं*
तिथि-क्षयः -
अमावस्या
तिथिक्षयः
पुं*
तिथि-क्षयः -
वह तिथि जो आरम्भ होकर सूर्योदय से पूर्व ही या दो सूर्योदयों के बीच में ही समाप्त हो जाती हैं
Shabdartha Kaustubha
Kannada
तिथिक्षय
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಚಂದ್ರನ ಕಲೆಗಳು ಕಡಮೆಯಾಗುವ ದಿವಸ /ಅಮಾವಾಸ್ಯೆ
व्युत्पत्तिः - > तिथीनां तिथ्युपलक्षितचन्द्रकलानां क्षयो यत्र
तिथिक्षय
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಅವಮ /ತಿಥಿಗಳು ಕ್ಷಯವಾಗಿ ಮೂರು ತಿಥಿಗಳು ಸೇರುವ ದಿವಸ
L R Vaidya
English
tiTi-kzaya {% m. %} 1. the day of the new moon
2. the day on which a tithi begins and ends between two sunrises.
शब्दकल्पद्रुमः
Sanskrit
तिथिक्षयः,
पुं,
(तिथीनां तिथ्युपलक्षितचन्द्र-कलानां क्षयो यत्र ।) अमावस्या इति शब्दार्थ-कल्पतरुः
दिनक्षयः त्र्यहस्पर्शः यथा, --“एकस्मिन् सावने त्वह्नि तिथीनां त्रितयं यदा ।तदा दिनक्षयः प्रोक्तस्तत्र साहस्रिकं फलम्
”अपिच ।“शतमिन्दूक्षये पुण्यं सहस्रन्तु दिनक्षये
”इति तिथ्यादितत्त्वम्
वाचस्पत्यम्
Sanskrit
तिथिक्षय
पु०
तिथीनां तिय्युपलक्षितचन्द्रकलानां क्षयः क्षया-रम्भो यस्मिन् दर्शे अमावास्यायाम् शब्दार्थकल्प० ।६ त० तिथीनां नाशे अवमे अवमशब्दे ४३१ पृ० दृश्यम्दिनक्षयादयोऽप्यत्र “कौर्मे पाद्मेऽपि “द्वौ तिथ्य-न्तावेकवारे यत्र स्याद्दिनक्षयः” वशिष्ठः “एकस्मिन्सावने त्वह्नि तिथीनां त्रितयं यदा तदा दिनक्षयःप्रोक्तस्तत्र साहस्रिकं फलम्” साहस्रिकं फलमितिमाङ्गल्येतरवैदिककर्मपरम् “अधिमासे दिनपाते धनुषिरवौ भानुलङ्घिते मासि चक्रिणि सुप्ते कुर्य्यान्नो मा-ङ्गल्यं विवाहञ्च” इति भीमपराक्रमात् दिनपाते दिनक्षयेरघु० तिथिक्षयानयनञ्च सू० सि० उक्तं यथा“सावनाहानि चान्द्रेभ्यो द्युभ्यः प्रोज्झ्य तिथिक्षयाः”सू० सि० “चान्द्रेभ्यो द्युभ्यो वक्ष्यमाणचान्द्रदिवसेभ्यःसकाशादित्यर्थः तिथिषु चान्द्रदिनेषु सावन-दिनानामवशेषतुल्यः क्षयो न्यूनत्वम् यद्वा तिथिश-ब्देन सावनो दिवसस्तस्य चान्द्रदिवसात् क्षय इतिस्वरूपमेव वक्ष्यमाणोपयोगात् परिभाषितम्” रङ्गना० ।युगे तत्संख्या सू० सि० उक्ता यथा युग इत्युपक्रमे“तिथिक्षया यमार्थाश्विद्व्यष्टव्योमशराश्विनः” १५०८२१५२एतन्मिता इत्यर्थः