| YouTube Channel

तितर्पयिषकः-षिका (titarpayiSakaH-SikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“तृप तृप्तौ”@} 2 आधृषीयः।
‘तृप्तावन्यतरस्यां णौ स्यातां तर्पति तर्पयेत्।।’ 3 इति देवः।
‘प्रीणने च’ इति कविकल्पद्रुमे।
‘सन्दीपने’ इति क्षीरस्वामी।
आधृषीयत्वेनास्य धातोर्णिज्विकल्पः।
तर्पकः-र्पिका, तितर्पयिषकः-षिका, तर्पकः-र्पिका, तितर्पिषकः-षिका, तरीतृपकः-पिका
इत्यादीनि सर्वाण्यपि रूपाणि चौरादिकचर्पयतिवत् 4 ज्ञेयानि।
णिजभावपक्षे शुद्धाद्धातोः ‘शेषात् कर्तरि--’ 5 इति परस्मैपदं शता भवतीति विशेषः।
6 तर्पन्-न्ती इति रूपम्।
प्रासङ्गिक्यः
01
=>
(७७३)
02
=>
(१०-चुरादिः-१८२०। सक। सेट्। उभ।)
03
=>
(श्लो। १३३)
04
=>
(५५४)
05
=>
(१-३-७८)
06
=>
[[आ। ‘प्रजहार हरिं रणेष्वतर्पन् सुदृढं छर्दितमन्युरप्रदर्भन्।।’ धा। का। ३। ४९।]]