| YouTube Channel

तिज (tija)

 
शब्दसागरः
English
तिज r. 1st cl. (तितिक्षते) To bear, to endure, to suffer with patience. r.
1st and 10th cls. (तेजते तेजयति-ते)
1. To whet, to sharpen.
2. To
shine: see तेज तिज क्षान्तौ स्वार्थे सन् निशाने सन् भ्वा-आ-सक-सेट्
तीक्ष्णीकरणे चुरा० उभ० सक० सेट्
Wilson
English
तिज r. 1st cl. (तितिक्षते) To bear, to endure, to suffer with
patience. r. 1st and 10th cls. (तेजते तेजयति)
1 To whet, to sharpen.
2 To shine: see तेज.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
तिज्
मूलधातुः:
तिज
धात्वर्थः:
निशाने (सहनम्)
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
तितिक्षते
अनुबन्धादिविशेषः:
नित्यसन्नन्तः
धातुः:
तिज्
मूलधातुः:
तिज
धात्वर्थः:
निशाने (तीक्ष्णीकरणम्)
गणः:
चुरादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
उभयपदी
रूपम्:
तेजयति-ते
धातुप्रदीपः
Sanskrit
तिजँ तिज निशाने, क्षमायाञ्च
- तितिक्षते क्षमाया अन्यत्र तेजनम् असुन् तेजः ।। 979 ।।
तिजँ तिज निशाने
- तेजयति तेजनम् 113
शब्दकल्पद्रुमः
Sanskrit
तिज, शिते इति कविकल्पद्रुमः
(चुरां-परं-सकं-सेट् ।) क, तेजयति शितं तीक्ष्णी-करणम् इति दुर्गादासः
तिज, क्षान्तौ निशाने इति कविकल्पद्रुमः
(भ्वां-आत्मं-सकं-सेट् ।) क्षान्तिः सहनम् ।ङ, तितिक्षते दुःखं दीनः तेजते तत्र तिबा-दयो प्रयुज्यन्ते इति रमानाथः इति दुर्गा-दासः
वाचस्पत्यम्
Sanskrit
तिज तीक्ष्णीकरणे, चुरा०
उभ०
सक०
सेट् तेजयति तेअतीतिजत् “कुसुमचापमतेजयदंशुभिर्हिमकरः” रघुः“तेजयित्वा तु तत्सेव्यम्” रामा० अर० ३१ स० ।“तेजिता बलदर्पाभ्याम्” हरिवं० ५२०८ “सा मयोक्तेनतेजिता” ९६४४ श्लो० तेजः
तिज क्षान्तौ क्षमायां स्वार्थे सन् निशाने सन्
भ्वा०
आत्म०सक० सेट् तितिक्षते तेजते अतितिक्षिष्ट अतेजिष्ट ।“आगमापायिनोनित्यास्तांस्तितिक्षस्व भारत!” गीता“हिमं घृणिं तितिक्षिष्यते” शत० ब्रा० १४ ।“अतिवादांस्तितिक्षेत” मनुः “आपस्ते पादं तितिक्षन्ता-मलमापस्तितिक्षितुम्” भा० शा० ८१७० अ० “तिति-क्षन्ते अभिशस्तिं जना नाम” ऋ० ३०
क्षीरतरङ्गिणी
Sanskrit
तिजँ तिज निशाने, क्षमायाञ्च
-(अर्थविवरणम्) निशानं तीक्ष्णीकरणम्
तितक्षते कोपम् क्षमायामुत्पत्तौ सन्विधेर् (द्र0 315) निशाने प्रत्ययान्तरं ज्ञापयते तेजते तेजः तेजनम् तेजनी युजिरुचितिजां कुश्च (उ0 1146) इति मक् तिग्मम् तिजेदीर्घश्च (उ0 318) इति स्नः- तीक्ष्णः चुरादौ (10100) उत्तेजयति 942
तिजँ तिज निशाने
- तेजयति तेजना, तेजनी भ्वादौ (1697) क्षमायां सन्-तितिक्षते, निशाने तेजत इत्याहुः 111
धातुवृत्तिः
Sanskrit
तिजँ तिज (अर्थः) निशाने
तिजँ तिज् (अर्थः) निशामने
( तेजयति ) तितिक्षते इति भौवादिकस्य तिजेर्नित्यसन्नन्तस्य क्षमायाम् तेजतीति शपि पालनार्थस्य 117
कृदन्तरूपमाला
Sanskrit
1 {@“तिज निशाने”@} 2 निशानम् = तीक्ष्णीकरणम्।
‘क्षमायां च’ इति क्षीरस्वामी।
3 तितिक्षकः-क्षिका, तितिक्षकः 4 -क्षिका, तितिक्षिषकः 5 -षिका, 6 तेजकः-जिका
7 तितिक्षिता-त्री, तितिक्षयिता-त्री, तितिक्षिषिता-त्री, तेजयिता-त्री
-- तितिक्षयन्-न्ती, तितिक्षयिष्यन्-न्ती-ती, तेजयन्, तेजयिष्यन्-न्ती-ती
तितिक्षमाणः, तितिक्षयमाणः, तितिक्षिषमाणः, तेजयमानः
तितिक्षिष्यमाणः, तितिक्षयिष्यमाणः, तितिक्षिषिष्यमाणः, तेजयिष्यमाणः
8 तितिक्-तितिग्-तितिक्षौ-तितिक्षः
-- -- -- 9 तेक्-तेग्-तेजौ-तेजः
-- -- -- तितिक्षितः-तम्, तितिक्षितः, तितिक्षिषितः, 10 तेजितः-तवान्
11 तितिक्षुः, तितिक्षिषुः, तितिक्षयिषुः, तेजः
तितिक्षितव्यम्, तितिक्षयितव्यम्, तितिक्षिषितव्यम्, तेजयितव्यम्
तितिक्षणीयम्, तितिक्षणीयम्, तितिक्षिषणीयम्, तेजनीयम्
तितिक्ष्यम्, तितिक्ष्यम्, तितिक्षिष्यम्, तेज्यम्
ईषत्तितिक्षः-दुस्तितिक्षः-सुतितिक्षः
-- -- तितिक्ष्यमाणः, तितिक्ष्यमाणः, तितिक्षिष्यमाणः, तेज्यमानः
तितिक्षः, तितिक्षः, तितिक्षिषः, तेजः
12 तितिक्षितुम्, तितिक्षयितुम्, तितिक्षिषितुम्, तेजयितुम्
तितिक्षा, तितिक्षणा, तितिक्षिषा, तेजना
तितिक्षणम्, तितिक्षणम्, तितिक्षिषणम्, तेजनम्
तितिक्षित्वा, तितिक्षयित्वा, तितिक्षिषित्वा, तेजयित्वा
प्रतितिक्ष्य, प्रतितिक्ष्य, प्रतितिक्षिष्य, प्रतेज्य
तितिक्षम् २, तितिक्षित्वा २, तितिक्षम् २, तितिक्षयित्वा २, तितिक्षिषम् २, तितिक्षिषित्वा २, तेजम्
तेजयित्वा
13 14 इति क्स्नप्रत्यये दीर्घः।]] तीक्ष्णम्, तिग्मम् 15 इति मक्प्रत्ययः, तत्सन्नियोगेन कवर्गादेशश्च।
तिग्मम् = तीक्ष्णम्।]]।
प्रासङ्गिक्यः
01
=>
(७१९)
02
=>
(१-भ्वादिः-९७१। सक। सेट्। आत्म।)
03
=>
[[१। ‘गुप्तिज्किद्भ्यः सन्’ (३-१-५) इति नित्यं सन्। ‘सनाद्यन्ता धातवः’ (३-१-३२) इति धातुसंज्ञायाम्, ‘सन्यङोः’ (६-१-९) इति द्वित्वम्। अभ्यास- कार्याणि। ‘खरि च’ (८-४-५५) इति चर्त्वेन जकारस्य ककारः। अस्य सनः ‘धातोः’ इत्यधिकृत्य विधानाभावात् नार्धधातुकत्वम्। तेन इड्गुणौ भवतः ‘तिज निशाने’ इत्युक्तेऽपि, ‘तिजेः क्षमायाम्’ इति वृत्तिकारवचनात् (३-१-५) क्षमायां नित्यसन्नन्तः प्रयोगार्हः। अर्थान्तरे तु अननुबन्धकाश्चुरादयः। अत्र, अस्यानुदात्तेत्त्वात् आत्मनेपदमेव।]]
04
=>
[[२। स्वार्थसन्नन्तात् प्रयोजकणिचि, ण्वुलि, ‘णेरनिटि’ (६-४-५२) इति णिलोपे रूपम्। एवं ण्यन्तेऽत्र सर्वत्र प्रक्रिया ज्ञेया।]]
05
=>
[[३। स्वार्थसन्नन्तात् ‘धातोः कर्मणः समानकर्तृकादिच्छायां वा’ (३-१-७) इति इच्छासनि रूपम्। ‘सन्नन्तान्न सनिष्यते।।’ (भाष्येष्टिः ३-१-७) इत्युक्तेः कथमत्र पुनः सन्? इति शङ्कनीयम्। तत्र समानार्थकस्यैव सनः पुनरुत्पत्तिनिषेधे तात्पर्यात्। ‘शैषिकान्मतुबर्थीयाच्छैषिको मतुबर्थिकः। सरूपः प्रत्ययो नेष्टः सन्नन्तान्न सनिष्यते।।’ इति किल तत्रोक्तम्।]]
06
=>
[[४। ‘अर्थान्तरेऽननुबन्धकाश्चुरादयः’ इति सिद्धान्तकौमुद्यादिषूक्तत्वात् निशान- रूपार्थे चुरादिः। तदानीं स्वार्थसनोऽभावे रूपम्। एवमुत्तरत्रापि ज्ञेयम्।]]
07
=>
[पृष्ठम्०६५८+ २२]
08
=>
[[१। क्विपि, अतो लोपे, संयोगान्तलोपे रूपम्।]]
09
=>
[[२। स्वार्थसनोऽभावपक्षे ण्यन्ताण्णिचि क्विपि, चर्त्वविकल्पे रूपम्।]]
10
=>
[[आ। ‘कृष्णः प्रपञ्चरहितां धृततेजितास्त्रैः वीरैः स्तुतां गिरमकीर्तदरातिवर्धी।।’ धा। का। ३। २८।]]
11
=>
[[B। ‘जुगुप्सतेऽघाद् व्यसनं तितिक्षुः मीमांसते ब्रह्म यो दृढात्मा।’ धा। का। २। ३८।]]
12
=>
[[C। ‘असंविदानस्य ममेश संविदां तितिक्षितुं दुश्चरितं त्वमर्हसि।’ किरातार्जुनीये १८। ४२।]]
13
=>
[पृष्ठम्०६५९+ २८]
14
=>
[[१। ‘तिजेर्दीर्घश्च’ [द। उ। ५-५०]
15
=>
[[२। ‘युजिरुचितिजां कुश्च’ [द। उ। ७-३३]
1 {@“तिज निशाने”@} 2 ‘--शातने’ इति कुत्रचित् पाठः।
तेजकः-जिका, तितेजयिषकः-षिका, तेजयिता-त्री, तितेजयिषिता-त्री
इत्यादीनि सर्वाणि रूपाणि पूर्वस्मिन् धातावेव 3 प्रदर्शितानि बोध्यानि।
पूर्वं भ्वादौ पठितस्यैव स्वार्थसन्नन्तस्य धातोः अर्थान्तरे चुरादि- त्वस्य भाष्यादिसम्मतत्वात् चुरादिषु पाठ उन्नेयः।
ण्यन्तात् सनि तु-- तितेजयिषकः-षिका, तितेजयिषिता-त्री, तितेजयिषन्-न्ती, तितेजयिषिष्यन्- न्ती-ती, तितेजयिषमाणः, तितेजयिषिष्यमाणः, तितेजयिट्-यिषौ-यिषः, तितेजयिषितः-तवान्, तितेजयिषुः, तितेजयिषितव्यम्, तितेजयिषणीयम्, तितेजयिष्यम्, ईषत्तितेजयिषः-दुस्तितेजयिषः-सुतितेजयिषः, तितेजयिष्यमाणः, तितेजयिषः, तितेजयिषितुम्, तितेजयिषा, तितेजयिषणम्, तितेजयिषित्वा, प्रतितेजयिष्य, तितेजयिषम् तितेजयिषित्वा २। इति रूपाणीति विशेषः।
प्रासङ्गिक्यः
01
=>
(७२०)
02
=>
(१०-चुरादिः-१६५३। सक। सेट्। उभ।)
03
=>
(७१९)