| YouTube Channel

तिग्मं (tigmaM)

 
शब्दकल्पद्रुमः
Sanskrit
तिग्मं,
क्ली,
(तेजयति उत्तेजयतीति तिज +“युजिरुजितिजां कुश्च ।” उणां १४५ ।इति मक् कवर्गश्चान्तादेशः ।) तीक्ष्णम् खरम् ।तद्वति, त्रि इत्यमरः ३५
(यथा, महाभारते २० ११ ।“तिग्मवीर्य्यविषा ह्येते दन्दशूका महाबलाः
”वज्रम् इति निघण्टुः २०
पुं,
क्षत्त्रिय-विशेषः यथा, विष्णुपुराणे २१ ।“ततो मृदुस्तस्मात् तिग्मस्तिग्मात् बृहद्रथः
”मत्स्यपुराणमते तु अयं उर्व्वस्य सुतः यथा, तत्रैव ५० ८४ ।“उर्व्वो भाव्यो सुतस्तस्य तिग्मात्मा तस्य चात्मजः ।तिग्मात् बृहद्रथो भाव्यो वसुदामा बृहद्रथात्
”अयं तिमिरित्याख्ययापि प्रसिद्धः इति राजा-वली
अस्य राज्यपालनकालादिकं तिमिशब्देद्रष्टव्यम्
)