| YouTube Channel

तिक्तकः (tiktakaH)

 
Wordnet
Sanskrit
Synonyms:
निम्बः, अरिष्टः, सर्वतोभद्रः, हिङ्गुनिर्यासः, मालकः, पिचुमर्दः, अर्कपादपः, कैटर्यः, वरत्वचः, छर्दिघ्नः, प्रभद्रः, पारिभद्रकः, काकफलः, कीरेष्टः, नेता, सुमनाः, विशीर्णपर्णः, यवनेष्टः, पीतसारकः, शीतः, पिचुमन्दः, तिक्तकः, कीकटः, शूकमालकः
noun
वृक्षविशेषः अस्य गुणाः तिक्तत्वशीतत्वकफव्रणक्रिमिवमिशोफशान्तिकारित्वादयः।
"निम्बः अतीव उपयोगी वृक्षः अस्ति।"
Synonyms:
कैरातम्, भूनिम्बः, किरातः, अनार्यतिक्तः, काण्डतिक्तकः, किरातकः, चिरतिक्तः, चिरातितिक्तः, तिक्तकः, सुत्क्तकः कटुतिक्तकः, रामसेनकः
noun
एकः क्षुपः यस्य गुणाः वायुवृद्धिकारित्वं रूक्षत्वं कफपित्तज्वरनाशित्वं
"कैरातस्य उल्लेखः कोशे वर्तते"
शब्दकल्पद्रुमः
Sanskrit
तिक्तकः,
पुं,
(तिक्तेन तिक्तरसेन कायतीति कै +कः ।) पटोलः इत्यमरः १५५
चिरतिक्तः इति शब्दरत्नावली
चिरता इतिभाषा
(यथा, वाभटे चिकित्सितस्थाने ।“पित्तकासे तनुकफे त्रिवृतां मधुरैर्युताम् ।युञ्ज्यात् विरेकाय युतां घनश्लेष्मणि तिक्तकैः
”)कृष्णखदिरः इति शब्दमाला इङ्गुदीवृक्षः ।इति भावप्रकाशः
(तिक्तप्रधाने, त्रि यथा, सुश्रुते २४ ।“निम्बश्च तिक्तके श्रेष्ठः कषाये खदिरस्तथा
”)द्रव्याणां गणः यथा चक्रपाणिसंग्रहे ज्वरा-धिकारे ।“तृष्यते सलिलञ्चोष्णं दद्याद्वातकफज्वरे ।मद्योत्थे पैत्तिके वापि शीतलं तिक्तकैः शृतम्
”“मुस्तपर्पटकोशीरचन्दनोदीच्यनागरैः ।शृतशीतं जलं दद्यात् पिपासाज्वरशान्तये
”“तिक्तकैः शृतमिति यदुक्तं तदाह मुस्तेत्यादि ।”इति तट्टीका
)