| YouTube Channel

तालीशपत्रं (tAlIzapatraM)

 
शब्दकल्पद्रुमः
Sanskrit
तालीशपत्रं,
क्ली,
(तालीशं रोगनाशकं पत्रंयस्य ।) वृक्षविशेषः तत्पर्य्यायः तालीशम् २पत्राख्यम् शुकोदरम् धात्रीपत्रम् अर्क-वेधम् करिपत्रम् करिच्छदम् नीलम् ९नीलाम्बरम् १० तालम् ११ तालीपत्रम् १२तमाह्वयम् १३ तालीशपत्रकम् १४ अस्यगुणाः तिक्तत्वम् उष्णत्वम् मधुरत्वम् कफ-वातकासहिक्काक्षयश्वासच्छर्द्दिदोषनाशित्वञ्च ।इति राजनिर्घण्टः
लघुत्वम् अरुचिगुल्मा-मवह्निमान्द्यनाशित्वञ्च इति भावप्रकाशः
भूम्यामलकी इति मेदिनी रे, ३०३