| YouTube Channel

तालवृन्तं (tAlavRntaM)

 
शब्दकल्पद्रुमः
Sanskrit
तालवृन्तं,
क्ली,
(तालस्य तालपत्रस्य वृन्तं कारणे-त्वेन अस्ति अस्य अच् ।) व्यजनम् इतिहेमचन्द्रः ३५१ तालपातार पाखा इतिभाषा
(यदुक्तम्, --“परे ब्रह्मणि विज्ञाते समस्तैर्नियमैरलम् ।तालवृन्तेन किं कार्य्यं लब्धे मलयमारुते
”)तस्य वायुगुणः त्रिदोषशमनत्वम् लघु-त्वञ्च इति राजवल्लभः
(सोमविशेषे, पुं ।यथा, --“एक एव खलु भगवान् सोमः स्थाननामाकृति-वीर्य्यविशेषैश्चतुर्व्विंशतिधा भिद्यते ।”“प्रतानवांस्तालवृन्तः करवीरोऽंशवानपि
”इति सुश्रुते चिकित्सितस्थाने २९ अध्याये
)