| YouTube Channel

तालनवमी (tAlanavamI)

 
Spoken Sanskrit
English
तालनवमी tAlanavamI
f.
9th day of the light half of month bhAdra
Monier Williams Cologne
English
ताल—नवमी
f.
the 9th day of the light half of month Bhādra (sacred to Durgā),
GarP.
Apte Hindi
Hindi
तालनवमी
स्त्री*
तालः-नवमी -
भाद्रपद मास के शुक्लपक्ष का नवाँ दिन
Wordnet
Sanskrit
Synonyms:
तालनवमी
noun
भाद्रपदमासस्य शुक्लपक्षस्य नवमी।
"शैलेशः तालनवम्यां जातः।"
शब्दकल्पद्रुमः
Sanskrit
तालनवमी,
स्त्री,
(तालोपहारा नवमी शाक-पार्थिववत् समासः ।) भाद्रशुक्लनवमी यथा, “मासि भाद्रपदे या स्यान्नवमी बहुलेतरा ।तस्यां संपूज्य वै दुर्गामश्वमेधफलं लभेत्
”इति संवत्सरकौमुदीधृतगरुडपुराणवचनम्
इयमेव तालनवमी ख्याता
(अस्यां नवम्यांसौभाग्यफलकाङ्क्षिणीभिः स्त्रीभिर्यथाविधानंनारायणं लक्ष्मीञ्च संपूज्य व्रतकथा श्रोतव्या ।तत्कथा यथा, --“मेरुपृष्ठे सुखासीनं कृष्णं कमलया सह ।उवाच मधुरं वाक्यं स्मितपूर्व्वं मुदाम्बिका
शृणु मे वचनं देव ! स्त्रीणां सौभाग्यकारणम् ।केन वा सुभगा चासीत् केन वा दुर्भगा भवेत्
किं कृतेन विमुच्येत किं कृतेन फलं लभेत् ।तन्मे ब्रूहि सुरश्रेष्ठ ! नारीणां कारणं ध्रवम्
श्रीभगवानुवाच ।पूर्व्वं हि मम भार्य्ये द्वे सत्यभामा रुक्मिणी ।रुक्मिणी सुभगा साध्वी सत्यभामा दुर्भगा
तस्याः कर्म्मविपाकेन सौभाग्यमन्यथा गतम् ।केनचिद्बाक्यदोषेण सत्यभामा दुर्भगा
दुःखार्त्ता शोकसन्तप्ता रुदती बहुशो मुहुः ।कियत्काले सम्पन्ने व्रजन्ती तपोवने
अरण्ये विजने गत्वा कस्मिन्मुनिवराश्रमे ।रुदित्वा विधानेन सर्व्वं दुःखं न्यवेदयत्
तच्छ्रत्वा तु मुनिश्रेष्ठः प्रोवाच रुदतीं शुभाम् ।भव्ये पुत्त्रिणि ! मा रोदीः सौभाग्यं ते भविष्यति
सत्यभामोवाच ।दुःखं मे बहुशस्तात ! शरीरं दुर्भगं कथम् ।कथ्यतां मुनिशार्द्दूल ! स्वामिसौभाग्यकारणम्
मुनिरुवाच ।भाद्रे मासि सिते पक्षे नवमी या तीथिर्भवेत् ।तस्यां नारायणं लक्ष्मीं पूजयेच्च विधानतः
सत्यभामोवाच ।विधानं कीदृशं तस्य किं दानं किञ्च पूजनम् ।तन्मे ब्रूहि मुनिश्रेष्ठ ! कारणं किन्तदुच्यताम्
मुनिरुवाच ।स्थण्डिले मण्डलं कृत्वा घटं तत्र निवेशयेत् ।तत्र नारायणं लक्ष्मीं गन्धपुष्पादिनार्च्चयेत्
नैवेद्येन सदा भक्त्या पूजयेत् भक्तवत्सलाम् ।तालेन पूजयेत् देवीं तालेनैव विनिर्म्मितम्
तस्ये तत् पिष्टकं दत्त्वा ब्राह्मणायोपपादयेत् ।गन्धमाल्यैः समभ्यर्च्च्य विप्रहस्ते समर्पितम्
स्वस्तीति ब्राह्मणो ब्रूयात् व्रतं साङ्गं समाचरेत् ।एवं क्रमेण साध्वीभिः कर्त्तव्यमतियत्नतः
नवमं वत्सरं यावत् मासि भाद्रपदे तथा ।पुत्त्रपौत्त्रैः परिवृता सौभाग्यमतुलं भवेत्
धनधान्यसमृद्धिञ्च अवैधव्यञ्च नित्यशः ।अभीष्टफलमाप्नोति नवमीव्रतकारणात्
सम्पूर्णे तु व्रते भूते प्रतिष्ठां तदनन्तरम् ।विप्राय दक्षिणा देया सुभोज्यञ्च विधानतः
एवं कुरु सदा विज्ञे ! शृणु भाषणमुत्तमम्
तथा चक्रे सा साध्वी मुनेर्व्वचनगौरवात् ।व्रते सम्पूर्णतां याते केशवस्तामुपागतः
उवाच प्रहसन् देवो वचनं मधुरं शुभम् ।असौभाग्येन यद्दुःखं तत् ते सर्व्वं विनश्यतु
सौभाग्यमतुलं प्राप्य यथा गौरी हरस्य ।शचीव पुरुहूतस्य रतीव मदनस्य
यथा नारायणे लक्ष्मीस्तथा त्वं भव शोभने ! ।इति तस्यै वरं दत्त्वा गृहीत्वा तां पुरं ययौ
इदं या कुरुते साध्वी व्रतं सा सुभगा भवेत् ।एवं व्रतञ्च या नारी करोति धर्म्मतत्परा
तस्याश्च भवने लक्ष्मीश्चञ्चला निश्चला भवेत् ।जन्मान्तरे भवेत् साध्वी अवैधव्यं सदा पुनः
पत्युश्च सुभगा साध्वी पुत्त्रपौत्त्रान्निता भवेत् ।धनधान्यसमृद्धिञ्च ततो मोक्षमवाप्नुयात्
”इति भविष्यपुराणोक्ततालनवमीव्रतकथासमाप्ता
*
व्रतेऽस्मिन् नवफलानि दातव्यानि ।तानि यथा, --“पिण्डखर्ज्जूरं जातिश्च एला चैव हरीतकी ।नारिकेलं तथा पूगं रम्भापक्वफलन्तथा ।तत्र मुख्यं प्रदातव्यं तालस्य फलमुत्तमम्
*
)
वाचस्पत्यम्
Sanskrit
तालनवमी स्त्री तालोपहारा नवमी शा० त० भाद्र-शुक्लनवस्यां “मासि भाद्रपदे या स्यान्नवमी बहुलेतरा ।तस्यां संपूज्य वै दुर्गामश्वमेधफलं लभेत्” संवत्सरकौ०धृतगरुडपुराणवचनम् इयमेव तालनवमी ख्याता