| YouTube Channel

तालकं (tAlakaM)

 
Apte 1890
English
तालकं 1 Yellow orpiment.
2 A fragrant earth.
3 A bolt, latch.
की The vinous exudation of the palm, toddy.
Comp.
आभ a. green. (
भः) the green colour.
शब्दकल्पद्रुमः
Sanskrit
तालकं,
क्ली,
(तालमेव ताल + स्वार्थे कन् ।)हरितालम् इति राजनिर्घण्टः
(अथ ताल-कस्याशुद्धस्य दोषमाह ।“अशुद्धं तालमायुर्हृ त्कफमारुतमेहकृत् ।तापस्फोटाङ्गसङ्कोचं कुरुते तेन शोधयेत्
अथ तालकस्य शोधनविधिः ।तालकं कणशः कृत्वा तच्चूर्णं काञ्जिके पचेत् ।दोलायन्त्रेण यामैकं ततः कुष्माण्डजैर्द्रवैः
तिलतैले पचेद्यामं यामञ्च त्रिफलाजले ।एवं यन्त्रे चतुर्यामं पक्वं शुध्यति तालकम्
अथ तालकस्य मारणविधिः ।सदलं तालकं शुद्धं पौनर्नवरसेन तु ।खल्वे विमर्द्दयेदेवं दिनं पश्चाद्विशोषयेत्
ततः पुनर्नवाक्षारैः स्थाल्यामर्द्धं प्रपूरयेत् ।तत्र तद्गोलकं धृत्वा पुनस्तेनैव पूरयेत्
आकण्ठं पिठरं तस्य पिधानं धारयेन्मुखे ।स्थार्लां चुल्व्यां समारोप्य क्रमाद्बह्निं विवर्द्धयेत्
दिनान्यन्तरशून्यानि पञ्चवह्निं प्रदापयेत् ।एवं तन्म्रियते तालं मात्रा तुल्यैकरक्तिका
अनुपानान्यनेकानि यथायोग्यं प्रयोजयेत्
”अन्यच्च ।“तालकं हरते रोगान् कुष्ठमृत्युज्वरापहम् ।शोधितं कुरुते कान्तिं वीर्य्यबुद्धिं तथायुषम्
”इति भावप्रकाशस्य पूर्व्वखण्डे द्वितीये भागे
अन्यान्यविधं हरितालमारणम् यथा, वैद्यक-रसेन्द्रसारसंग्रहे जारणमारणाधिकारे ।“तालकं कणशः कृत्वा सुशुद्धं हुण्डिकान्तरे ।चूर्णोदकेन संपिष्टमपामार्गजटोद्भवैः
क्षारोदकैश्च संपिष्टमूर्द्धाधो यावशूकजम् ।चूर्णं दत्त्वा निरुध्याथ कुष्माण्डैश्च प्रपूरयेत्
पुनर्मुखं निरुध्याथ चतुर्यामं क्रमाग्निना ।पचेदेवं हि तच्चूर्णं कुष्ठादौ परियोजयेत्
”मतान्तरम् ।“अम्ललोनीजलैर्भाव्यं तालं द्बादशयामकम् ।तथैव निम्बनीरेण ततश्चूर्णोदकेन ।प्रक्षाल्य शाल्मलीक्षारैर्द्विगुणैः खातमध्यगम् ।विधाय कवचीयन्त्रं बालुकाभिः प्रपूरयेत् ।द्बादशप्रहरं पक्त्वा स्वाङ्गशीतञ्च चूर्णयेत् ।खादयेद्रक्तिकामेकां कुष्ठश्लीपदशान्तये
”इति हरितालमारणम्
)(तालमिव कायतीति कै + कः ।) द्वार-यन्त्रम् इति हेमचन्द्रः ७१
तालाइति भाषा
तुवरिका इति शब्दरत्नावली