| YouTube Channel

तारावती (tArAvatI)

 
Monier Williams Cologne
English
तारा—वती
f.
a form of Durgā,
Śaktir.
v
N.
of a daughter of Kakutstha (wife of king Candra-śekhara),
KālP.
of the wife of Dharmadhvaja,
Vet.
Shabdartha Kaustubha
Kannada
तारावती
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಕಕುತ್ಸ್ಥ ರಾಜನ ಪತ್ನಿಯಾದ ಮನೋನ್ಮಥಿನಿಯಲ್ಲಿ ಜನಿಸಿದ ದುರ್ಗಾದೇವಿ /ಪರಶಿವನ ಅವತಾರವಾದ ಚಂದ್ರಶೇಖರನ ಪತ್ನಿ
Schmidt Nachtrage zum Sanskrit Worterbuch
German
तारावती °Nacht, H 19, 41.
Wordnet
Sanskrit
Synonyms:
तारावती
noun
इक्ष्वाकुवंशीयस्य राज्ञः चन्द्रशेखरस्य पत्नी।
"तारावत्याः वर्णनं पुराणेषु अस्ति।"
शब्दकल्पद्रुमः
Sanskrit
तारावती,
स्त्री,
चन्द्रशेखरराजपत्नी सा चककुत्स्थराजेन तत्पत्न्यां मनोन्मथिन्यां जाता ।असौ गिरिजांशजा यथा, --“इक्ष्वाकुवंशजो राजाककुत्स्थो नाम धार्म्मिकः ।भोगवत्याह्वयायान्तु पुर्य्यां रिपुनिसूदनः
सर्व्वलक्षणसम्पन्नो भूपालगुणसंयुतः ।तस्य भार्य्या महाभागा भर्गदेवस्य पुत्त्रिका
सा मनोन्मथिनी नाम्ना पूजिता पतिवल्लभा ।तस्याः पुत्त्रशतं जज्ञे देवगर्भाभमच्युतम्
बलवीर्य्यसमायुक्तं ककुत्स्थनृपसत्तमात् ।पुत्त्री विद्यते तस्यास्तदर्थं सा गृहान्तरे
निभृतं स्थण्डिलं कृत्वा चण्डिकां समपूजयत् ।पूज्यमाना महादेवी चण्डिका राजभार्य्यया
प्रसन्ना सा त्रिभिर्व्वर्षैस्तां स्वप्ने चाब्रवीदिदम् ।योषिल्लक्षणसंयुक्ता सार्व्वभौमस्य भाविनी
नक्षत्रमालया युक्ता पुत्त्री तव भविष्यति ।सापि स्वप्ने वरं प्राप्य मुदिताभून्नृपाङ्गना
पार्व्वत्यपि स्वयं तस्या गर्भे काले विवेश ।सा मनोन्मथिनी देवी प्रवृत्ते ऋतुसङ्गमे
गर्भं दधौ महासत्त्वं चन्द्रिकेवामृतोत्करम् ।सम्पूर्णे तु ततः प्राप्ते तदा नक्षत्रमालिनीम्
सा मनोन्मथिनी देवी सुषुवे तनयां शुभाम् ।तां दृष्ट्वा हारसंयुक्तां शरज्ज्योत्स्नोपमांशुभाम्
ककुत्स्थो भार्य्यया सार्द्धमत्यन्तमुदितीऽभवत् ।सहजेनाथ हारेण भूषिता सा ककुत्स्थजा
ववृधे मन्दिरे तस्य वर्षास्विव सुरापगा ।तेनैव हारचिह्नेन तस्यास्तारावतीति वै
नामाकरोत् पिता काले यथोक्ते नृपसत्तमः ।कालक्रमेण सा बाल्यं व्यतीत्य वरवर्णिनी
मञ्जुलं यौवनोद्भेदं प्राप श्रीरिव माधवे ।तस्यास्तु यौवनोद्भेदं दृष्ट्वा राजा सुतैः सह
ककुत्स्थः कारयामास समयेऽथ स्वयंवरम् ।माघवे मासि संप्राप्ते चन्द्रवृद्धौ शुभे दिने
स्वयंवरसभां चक्रे तारावत्याः पिता सुतैः ।वार्त्तिकान् सुबहून् राजा वडवाभिः क्रमेण वै
तूर्णं प्रस्थापयामास नानादेशनृपान् प्रति ।ते राजानस्तथा श्रुत्वा वार्त्तां वै वार्त्तिकाननात्
तूर्णमेव समाजग्मुस्तारावत्याः स्वयंवरम् ।तत् श्रुत्वा पौष्यतनयश्चतुरङ्गबलैर्यतः
स्वयंवरं जगामाशु देवालङ्कारमण्डितः ।एतस्मिन्नन्तरे राज्ञः कुमारी वरवर्णिनी
वृद्धां धात्रीं निजां सम्यक् सम्पूर्णज्ञानशालिनीम् ।स्वयंवरसभां द्रष्टुं प्राहिणोत् सदसं प्रति
स्वयंवरसभां गत्वा चारुरूपं सुलक्षणम् ।नृपं निरूप्य भो धात्रि ! मह्यमेत्य निवेदय
एवं तां प्रेषयित्वाथ धात्रीं नृपतिपुत्त्रिका ।सा मनोन्मथिनी यत्र प्राराधयति चण्डिकाम्
तत्र प्रायान्महाभागा शुभा तारावती तदा ।तत्र गत्वा महादेवीं प्रणम्य कालिकाह्वयाम्
मानुषेणाथ भावेन ज्ञात्वात्मानमात्मना ।प्रणनाम महाभक्त्या वाक्यञ्चैतदुवाच
प्रणमामि महामायां योगनिद्रां जगम्मयीम् ।सा मे प्रसीदतां गौरी चण्डिका भक्तवत्सला ।यदि सत्यं जनन्या मे मदर्थे त्वं प्रपूजिता ।तेन सत्येन सुभगः पतिर्म्मम नृपोत्तमः
स्वयंवरेऽद्य भवतु प्रसीद हरवल्लभे ! ।इति तस्या वचः श्रुत्वा चण्डिका हरमोहिनी
मोहयन्ती नृपसुतां यथात्मानं वेत्ति ।अथ प्राहादृश्यमूर्त्तिरिदं सा सूनृतं वचः
श्रीदेव्युवाच ।पौष्यस्य तनयो योऽसौ नाम्ना तु चन्द्रशेखरः ।स मनोहररूपस्ते प्रियः स्वामी भविष्यतिं
तमिन्दूकलया शीर्षे चिह्नितं नृपसत्तमम् ।वरयस्व रवारोहे पार्व्वतीव वृषध्वजम्
अथाजगाम सा धात्री निरूप्य सदृशं पतिम् ।तारावत्यास्तदाचष्ट रहस्यं नृपसत्तमम्
दृष्ट्वा तामागतां धात्रीं प्रहृष्टा नृपतेः सुता ।पप्रच्छ निभृतं कीदृक् को वा दृष्टस्त्वया नृपः
सा प्राह धात्री वचनात्तव भूपा विलोकिताः ।चारुरूपाः कुलीनाश्च शास्त्रे शस्त्रे पारगाः
”“नृपौ पुनर्म्महासत्त्वौ सिंहस्कन्धौ बृहद्भुजौ ।सर्व्वलक्षणसम्पन्नौ देवालङ्कारमण्डितौ
तयोरपि वयःस्थत्वात् प्रशस्तश्चन्द्रशेखरः ।स एव ते पतिर्योग्यश्चिह्नेनानेन सुन्दरि !
तं त्वं वरय राजानं तव योग्यं शुभोदयम् ।धात्र्याश्चैवं वचः श्रुत्वा राजपुत्त्री जगाद ताम्
मत्पार्श्वचारिणी भूत्वा निदेशय नृपोत्तमम् ।सावतीर्य्य तदा याप्ययानात्तारावती तदा
धात्र्या चानुगया युक्ता व्यचरत् सदसोऽन्तरे ।सभामध्ये चिरं सा तु विहृत्य वरवर्णिनी
भावित्वान्नियतेर्योगाच्चण्डिकायाः प्रसादतः ।तयोः समत्वादेकत्वात्तया धात्र्या विबोधिता
इति खेदजघर्म्माम्भःकणिकानिचितानना ।पतिं पूर्व्वतरं पुत्त्री राज्ञान्तारावती सती
स्वयं सा पार्व्वती देवी वव्रे चन्द्रशेखरम् ।वैवाहिकेन विधिना राजा चन्द्रशेखरः
तारावतीं तदा भार्य्यां ककुत्स्थनृपतेः सुताम् ।संस्कृत्य ज्ञापयामास देवेभ्यो वैदिकैर्मखैः
पाणिग्रहणसंस्कारं कृत्वा तां सहचारिणीम् ।करवीरपुरायाशु प्रययौ चन्द्रशेखरः
”इति कालिकापुराणे ४८ अध्यायः
वाचस्पत्यम्
Sanskrit
तारावती स्त्री ककुत्स्थराजभार्य्यायां मनोन्यथिन्यां जातायांदुर्गावतारभूतायां कन्यायां शिवावतारचन्द्रशेखरपत्न्याम् ।तत्कथा कालिकापु० ४७ अ० यथा ।“काकुत्स्थो भार्य्यया सार्द्धमत्यन्तमुदितोऽभवत् ।सहजेनाथ हारेण भूषिता सा ककुत्स्थजा ववृधेमन्दिरे तस्य वर्षास्विव सुरापगा तेनैव हारचिह्नेनतस्यास्तारावतीति वै नामाकरोत् पिता काले यथोक्तेनृपसत्तम!” “पतिं पूर्ववरं पुत्री राज्ञस्तारावती सती ।खयं सा पार्वती देवी वत्रे चन्द्रशेखरम् वैवाहि-केन विधिना राजा चन्द्रशेखरः तारावतीं तदाभार्य्यां ककुत्स्थनृपतेः सुताम् संस्कृत्य ज्ञापयामासदेवेभ्यो वैदिकैर्मखः”