| YouTube Channel

ताराचमन (tArAcamana)

 
वाचस्पत्यम्
Sanskrit
ताराचमन
न०
तारायाः पूजाद्यङ्गमाचमनम्” शा० त० ।तारादवीपजाद्यङ्गे आचमनभेदे तच्च भैरवतन्त्रे उक्तंयथा “तारामेदेस्त्रिभिः पीत्वा मायया क्षालयेत् करम् ।हुँ ओष्ठौ तु द्बिरुत्मृज्य फट्कारैः क्षालयेत् करम् ।आस्यं नासे दृशौ श्रात्रे नाभिवक्षः श्रिरोभुजान् ।वैरोचनादिभिः स्पृष्ट्वा सर्वपापैः प्रमुच्यते आचम्यभैरवो भूत्वा वत्सरात्तां प्रपश्यति” ताराभेदैरिति ।उग्रतारैकजटानीलसरस्वतीभेदैः वैरोचनादयस्तु ।बैरोचन, शङ्ख, पाण्डर, पद्मनाभ नामक, मामक, पाण्डव, तारकाऽसिताङ्ग, यमान्तक, विघ्नान्तक, नरा-न्तकाः, सचतुर्थीप्रणवादिनमोऽन्तकाः” कृष्णानन्दतन्त्रसा०