| YouTube Channel

तारकब्रह्म (tArakabrahma)

 
Shabdartha Kaustubha
Kannada
तारकब्रह्म
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಆರು ಅಕ್ಷರಗಳುಳ್ಳ ಶ್ರೀರಾಮಮಂತ್ರ
व्युत्पत्तिः - > तारकं तद् ब्रह्म
प्रयोगाः - > "षडक्षरं महामन्त्रं तारकब्रह्म उच्यते रामाय नम इत्येतत् प्रणवादि षडक्षरम् ॥"
शब्दकल्पद्रुमः
Sanskrit
तारकब्रह्म,
क्ली,
(तारकं संसारसागरपारकारकंब्रह्म ।) षडक्षरमन्त्रविशेषः यथा, --“षडक्षरं महामन्त्रं तारकं ब्रह्म उच्यते ।ये भजन्ति मां भक्त्या तेषां मुक्तिर्न संशयः
रामाय नम इत्येवमुच्चार्य्य मन्त्रमुत्तमम् ।सर्व्वदुःखहरञ्चैतत् पापिनामपि मुक्तिदम्
इमं मन्त्रं जपन्नित्यममलस्त्वं भविष्यसि ।भग्मास्थिधारणाद्यस्तु सम्भूतश्चाशुचिस्त्रयि
मङ्गलं तद्भूत सर्व्वं मन्मन्त्रोच्चारणात् शुभात् ।लमप्यनेन श्रीरामतारकाख्येन मन्त्रतः
भूत्वा काश्यां विश्वनाथो मदाज्ञापरिपालकः ।कृत्वा मुक्तान् जीवमात्रान् मानुषादीन् परंपदम्
अन्यत् किन्ते भयं मन्त्रप्रभावात् प्रापयिष्यसि ।इति सन्दिश्य मां विष्णुर्विससर्ज्ज मरुद्गणान्
”इति पाद्मोत्तरखण्डे श्रीशिवं प्रति श्रीविष्णु-वाक्यम्
अपि ।“मुमूर्षोर्मुनिकर्ण्यान्तु अर्द्धोदकनिवासिनः ।अहं दिशामि ते मन्त्रं तारकं ब्रह्मवाचकम्
ओँ श्रीरामरामरामेत्येतत्तारकमुच्यते ।अतस्त्वं जानकीनाथ ! परं ब्रह्म विनिश्चितम्
”इति पाद्मोत्तरखण्डे श्रीरामं प्रति श्रीशिव-वाक्यम्
वाचस्पत्यम्
Sanskrit
तारकब्रह्म
न०
कर्म्म० रामस्य (ॐ रामाय नमः)षडक्षरे मन्त्रे “षडक्षरं महामन्त्रं तारकब्रह्म-उच्यते रामाय नम इत्येतत् प्रणवादि षडक्षरम्”इति अन्योऽपि मन्त्रः पद्मपुर० उक्तो यथा “मुमूर्षो-र्मुनिकर्ण्यान्तु अर्द्धोदकनिवासिनः अहं दिशामि तेमन्त्रं तारकं ब्रह्मवाचकम् ओँ श्रीरामरामेत्येत-न्मन्त्रं तारकमुच्यते अतस्त्वं जानकोनाथ परं ब्रह्मविनिश्चितम्”