| YouTube Channel

तायृ (tAyR)

 
Shabdartha Kaustubha
Kannada
तायृ - सन्तानपालनयोः (भ्वा० आत्म० अक० से०) तायते
पदविभागः - > धातुः
कन्नडार्थः - > ಹರಡು /ಎಡೆಬಿಡದೆ ವ್ಯಾಪಿಸು /ವಿಸ್ತಾರ ಹೊಂದು
तायृ - सन्तानपालनयोः (भ्वा० आत्म० अक० से०) तायते
पदविभागः - > धातुः
कन्नडार्थः - > ಪಾಲಿಸು /ಕಾಪಾಡು
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
ताय्
मूलधातुः:
तायृ
धात्वर्थः:
सन्तान-पालनयोः
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
तायते
धातुप्रदीपः
Sanskrit
तायृँ तायृ सन्तान, पालनयोः
- तायते तताये अतायि अतायिष्ट ।। 488 ।।
क्षीरतरङ्गिणी
Sanskrit
तायृँ तायृ सन्तान, पालनयोः
- (अर्थविवरणम्) सन्तानः प्रबन्धः
तायते अततायत् दीपजनबुधपूरि (3161) इति कर्तरि वा चिण्-अतायि, अतायिष्ट तय रक्षणे (1319) तयते, अतीतयत् 477
धातुवृत्तिः
Sanskrit
तायृँ तायृ (अर्थः) सन्तान, पालनयोः
(अर्थविवरणम्) संतानः प्रबन्धः
( तायते तायते तताये तायितेत्यादि पूर्ववत् लुङि "दोपजन'' इत्यादिना कत्तैरी तशब्दे वा चिणि ( अतापि अतायिष्टेति भवति ) ऋदित्त्वाण्णै चङ्युपधाया हस्वाभावात् ( अततायत् ) अनीदित्त्वान्निष्ठायां ( तायितःतायितवान् ) 485
कृदन्तरूपमाला
Sanskrit
1 {@“तायृ सन्तानपालनयोः”@} 2 सन्तानम् = प्रबन्धः।
आद्ये -- अकर्मकः।
द्वितीये -- सकर्मकः।
तायकः-यिका, तायकः-यिका, तितायिषकः-षिका, तातायकः-यिका
तायिता-त्री, ताययिता-त्री, तितायिषिता-त्री, तातायिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि कासृधातुवत् 3 ज्ञेयानि।
क्विपि -- मित्रं तायते रक्षतीति, मित्रताः।
वलि लोपे आकारान्तं प्रातिपदिकम्, इति विशेषः।
अशेषताम् 4।
प्रासङ्गिक्यः
01
=>
(७१५)
02
=>
(१-भ्वादिः-४८९। सक। सेट्। आत्म।)
03
=>
(१८८)
04
=>
[[C। ‘अशेषता भ्रूशलनैर्वलद्दृशा प्रवल्लमानं प्रियवल्लवीशुचम्।।’ धा। का। १। ६३।]]