| YouTube Channel

ताम्रयोग (tAmrayoga)

 
वाचस्पत्यम्
Sanskrit
ताम्रयोग
पु०
चक्रदत्तोक्ते औषधभेदे तद्विधानादि तत्रोक्तयथा “स्थाल्यां संमर्द्य दातव्यौ माषिकौ रसगन्धकौ नख-क्षुण्णं तदुपरि तण्डुलीयं द्विमाषिकम् ततो नैपाल-ताम्रादि पिधाय सुकरालितम् पांशुना पूरयेदूर्द्ध्वसर्वां स्थालीं ततोऽनलः स्थाल्यधो नालिकां याव-द्देयस्तेन मृतस्य ताम्री ताम्रस्य रत्त्येकात्रिफलाचूर्णरत्तिका त्र्यूषणस्य रत्त्येका विड-ङ्गस्य तन्मधु घृतेनालोद्ध्य लेढव्यं प्रथमे दिवसेततः रत्तिवृद्धिः प्रतिदिनं कार्य्या ताम्रादिषु त्रिषु ।स्थिरा विडङ्गरत्तिस्तु यदा भेदो विवक्षितः तदाविडङ्गन्त्वधिकं दद्याद्रत्तिद्वयं पुनः द्वादशाहं योग-वृद्धिस्ततो ह्रासक्रमोऽप्ययम् ग्रहणीमम्लपित्तञ्च क्षयंशूलञ्च० सर्वदा ताम्रयोगो जयत्येष बलवर्णाग्निवर्द्धनः”