| YouTube Channel

ताम्रं (tAmraM)

 
शब्दकल्पद्रुमः
Sanskrit
ताम्रं,
क्ली,
(तम्यते आकाङ्क्ष्यते इति तमुकाङ्क्षायाम् + “अमितम्योर्दीर्घश्च ।” उणां ।१६ इति रक् उपधाया दीर्घश्च ।) तैजस-घातुविशेषः तामा इति ताँवा इति भाषा
तत्पर्य्यायः ताम्रकम् शुल्वम् म्लेच्छ-मुखम् द्ब्यष्टम् वरिष्ठम् उडुम्बरम् ।इत्यमरः ९७
द्विष्ठम् उदम्बरम् ९औदुम्बरम् १० उदुम्बरम् ११ औडुम्बरम् १२ ।इति तट्टीका
तपनेष्टम् १३ अम्बकम् १४अरविन्दम् १५ रविलोहम् १६ रविप्रियम् १७रक्तम् १८ नैपालिकम् १९ रक्तधातु २० मुनि-पित्तलम् २१ अर्कम् २२ सूर्य्याङ्गम् २३ लोहि-तायसम् २४ इति शब्दरत्नावली
सुपक्वस्यतस्य गुणाः मधुरत्वम् कषायत्वम् तिक्त-त्वम् विपाके कटुत्वम् शीतलत्वम् कफपित्त-विबन्धशूलपाण्डूदरगुल्मनाशित्वञ्च इति राज-निर्घण्टः
अम्लत्वम् सारकत्वम् रोपण-त्वम् लघुत्वम् लेखनत्वम् अर्शोज्वरकुष्ठ-कासश्वासक्षयपीनसाम्लपित्तशोथकृमिनाशि-त्वम् अल्पबृंहणत्वञ्च इति भावप्रकाशः
परिणामशूलप्लीहवाय्वामशूलबहुरोगनाशित्वम् ।शुद्धिकारित्वम् बलायुस्तेजःपुष्टितुष्टिकारित्वंनित्यसेवने वलीपलितनाशित्वञ्च
*
मृद्-वेष्टितशूरणकन्दगर्भनिहितगोमयाग्निभस्मीकृत-पञ्चामृतद्बारा पञ्चपुटदत्तताम्रस्य गुणाः ।वान्तिभ्रान्तिशूलाग्निमान्द्याम्लपित्तनाशित्वम् ।बलकारित्वञ्च
*
अशोधितताम्रदोषाः ।आयुःशुक्रबलनाशित्वम् रोगवृद्धिच्छर्द्दिमूर्च्छा-भ्रमक्लेदनानारोगकुष्ठशूलविदाहस्वेदारुचिचित्त-सन्तापकारित्वम् विषतुल्यत्वञ्च इति सुख-बोधः
*
तस्योत्पत्तिर्यथा, --“शुक्रं यत् कार्त्तिकेयस्य पतितं धंरणीतल ।तस्मात् ताम्रं समुत्पन्नमिदमाहुः पुराविदः
”तस्य लक्षणं यथा, --“जपाकुसुमसङ्काशं स्निग्धं मृदुं घनं क्षमम् ।लोहनागोज्झितं ताम्रं मारणाय प्रशस्यते
कृष्णरूक्षमतिस्तब्धं श्वेतञ्चापि घनासहम् ।लोहनागयुतञ्चेति शुल्वं दुष्टं प्रकीर्त्तितम्
”तस्य शोघनविधिर्यथा, --“पत्तलीकृतपत्राणि ताम्रस्याग्नौ प्रतापयेत् ।निषिञ्चेत् तप्ततप्तानि तैले तक्रे काञ्जिके
गोमूत्रे कुलत्थानां कषाये त्रिधा त्रिधा ।एवं ताम्रस्य पत्राणां विशुद्धिः संप्रजायते
”अथ तस्य मारणविधिर्यथा, --“सूक्ष्माणि ताम्रपत्राणि कृत्वा संस्वेदयेद्बुधः ।वासरत्रयमम्लेन ततः खल्ले विनिःक्षिपेत्
पादांशं सूतकं दत्त्वा याममम्लेन मर्द्दयेत् ।तत उद्धृत्य पत्राणि लेपरेद्द्विगुणेन ।गन्धकेनाम्लघृष्टन तस्य कुर्य्याच्च गोलकम्
ततः पिष्ट्वा मीनाक्षीं चाङ्गेरीं सपुनर्नवाम् ।तत्कल्केन बहिर्गोलं लेपयेद्द्व्यङ्गुलोन्मितम्
धृत्वा तद्गोलकं भाण्डे शरावेण रोघयेत् ।बालुकाभिः प्रपूर्य्याथ विभूतिलवणाम्बुभिः
दत्त्वा भाण्डमुखे मुद्रां ततञ्चुल्यां विपाचयेत् ।क्रमवृद्ध्याग्निना सम्यक् यावद्यामचतुष्टयम्
स्वाङ्गशीतं ससुद्धृत्य मर्द्दयेच्छूरणद्रवैः ।यामैकं गोलकं तच्च निःक्षिपेच्छूरणोदरे
मृदा लेपस्तु कर्त्तव्यः सर्व्वतोऽङ्गुष्ठमात्रकः ।पाच्यं गजपुटे क्षिप्तं मृतं भवति निश्चितम्
वमनञ्च विरेकञ्च भ्रमं क्लममथारुचिम् ।विदाहं स्वेदमुत्क्लेदं करोति कदाचन
”इति भावप्रकाशः
*
शुल्वनिभः अरुणवर्णः इति हेमचन्द्रःशब्दरत्नावली
तद्बति, त्रि
(“न विषं विषमित्याहुस्ताम्रञ्च विषमुच्यते ।एकदीषो विषे त्वष्टौ दोषास्ताम्रे प्रकीर्त्तिताः
भ्रमो मूर्च्छा विदाहश्च उत्क्लेदशोषवान्तयः ।अरुचिश्चित्तसन्ताप एते दोषा विषोपमाः
तस्माद्बिशुद्धं ताम्रं हि ग्राह्यं रोगोपशान्तये ।पटुना रविदुग्धेन ताम्रपत्राणि लेपयेत्
अग्नौ सन्ताप्य निर्गुण्डीरसे सिञ्चेत् पुनः पुनः
मतान्तरम् ।गोमूत्रेण पचेद्यामं ताम्रपत्रं दृढाग्निना ।शुध्यते नात्र सन्देहो मारणञ्चात्र कथ्यते
इति ताम्रशोधनम्
*
अथ ताम्रमारणम् ।सूतमेकं द्विधा गन्धं यामं मर्द्द्यन्तु कन्यया ।द्वयोस्तुल्यं ताम्रपत्रं लिप्त्वा स्थाल्यां निधापयेत् ।सम्यक् शूरणजैः सार्द्धं पार्श्वे भस्म निधापयेत् ।चतुर्यामं पचेच्चुल्ल्यां पात्रपृष्ठे सगोमये
जलं पुनः पुनर्द्देयं स्वाङ्गशीतं विमर्द्दयेत् ।म्रियते नात्र सन्देहः सर्व्वरोगेषु योजयेत्
मतान्तरम् ।जम्ब्वाम्भसा सैन्धवसंयुतेनसगन्धकं स्थापय शुल्वपत्रम् ।पक्वायमानं पुटयेत् सुयुक्त्यावातादिकं यावदुपैति शान्तिम्
अन्यतरमतम् ।शुद्धं ताम्रदलं विमर्द्द्या पटुना क्षारेण जम्बीरजैनींरैर्घस्रमिदं स्नुह्यर्कपयसा लिप्तं धमेत् सप्तधा ।निर्गुण्ड्यम्बुहिमं रसेन्द्रकलितं दुग्धाज्यगन्धेन तत्तुल्येनाथ मृतंभवेत् सुपठितं पञ्चामृतेन त्रिधा
गुणा यथा, --वान्तिभ्रान्तिविवर्ज्जितं क्षयरुजाकुष्ठानिपाण्ड्वामयंशूलं मेहगुदाङ्कुरानिलगदानुक्तानुपानैर्जयेत् ।गुञ्जामात्रमिदन्ततो द्बिगुणितं तच्छुद्धकायेन चेत्भुक्तः स्थौल्यजरापमृत्युशमनं पथ्याशिना वत्स-रात्
ताम्रमुष्णं गरहरं यकृत्प्लीहोदरापहम् ।क्रिमिशूलामवातघ्नं ग्रहण्यर्शोऽम्लपित्तजित्
”इति ताम्रमारणम्
*
इति वैद्यकरसेन्द्रसारसंग्रहे जारणमारणाधि-कारे
)