| YouTube Channel

ताम्बूलं (tAmbUlaM)

 
शब्दकल्पद्रुमः
Sanskrit
ताम्बूलं,
क्ली,
(तम + “खर्जिपिञ्जादिभ्य ऊरो-लचौ ।” उणां ९० इति ऊलच् बुगा-गमो दीर्घश्च ।) पर्णम् पान इति भाषा ।अस्य गुणाः कटुत्वम् तिक्तत्वम् उष्ण-त्वम् मधुरत्वम् क्षारत्वम् कषायत्वम् ।वातकृमिकफदुःखदोषनाशित्वम् कामाग्नि-सन्दीपनत्वम् स्त्रीसम्भाषणभूषणत्वम् धृति-वक्त्रपाटवोत्साहकान्तिकारित्वम् सुप्तोत्थितेभुक्ते शस्तत्वम् दन्तास्यदृग्गदे त्याज्यत्वम् ।स्वर्गेऽपि दुर्लभत्वञ्च इति राजवल्लभः
अपि तीक्ष्णत्वम् पीनसकासनाशित्वम् ।रुच्यत्वम् दाहकारित्वञ्च
*
कृष्णपर्णस्यगुणाः तिक्तत्वम् उष्णत्वम् कषायत्वम् ।दाहवक्त्रजाड्यमलधारित्वञ्च
*
शुभ्रपर्णस्यगुणाः श्लेष्मवातामयनाशित्वम् पथ्यत्वम् ।रुच्यत्वम् दीपनत्वम् पाचनत्वञ्च
*
सद्यस्त्रोटितताम्बूलभक्षणगुणाः मुखरोगजाड्य-दोषवातारोचकरक्तमलविष्टम्भकान्तिकारित्वम्
त्रिरात्रत्रोटितभूयोजलयोजितताम्बूलगुणाः ।उत्तमत्वम् रुचिबलकारित्वम् त्रिदोषार्त्ति-नाशित्वञ्च
*
“शिरापर्णन्तु शैथिल्यं कुर्य्यात्तस्यास्रहृद्रसः ।शीर्णं त्वग्दोषदन्तस्य भक्षिते तु सितासिते
अनिधाय मुखे पर्णं पूगं स्वादयते नरः ।मतिभ्रंशो दरिद्रः स्यादन्ते स्मरते हरिम्
”इति राजनिर्घण्टः
*
“पर्णमूले वसेद्ब्याधिः पर्णाग्रे पापसञ्चयः ।चूर्णपर्णं हरेदायुः शिरा बुद्धिविनाशिनी
नायुरग्रे विषं मूले मध्येऽलक्ष्मीर्व्यवस्थिता ।तस्मादग्रञ्च मूलञ्च मध्यं पर्णस्य वर्ज्जयेत्
चूर्णाधिकं हरति गन्धमथाधिपूगंरागं तथाधिकदलञ्च सुगन्धिकारि ।ताम्बूलमुत्तममिदं रसनाग्रभिन्न-पर्णं निशास्वधिकखण्डितपर्णमह्नि
ताम्बूलं हितं प्रोक्तं शरीरे रूक्षदुर्ब्बले ।ज्वरास्यशोषपित्तास्रमदमूर्च्छाक्षिरोगिषु
ताम्बूलात्युपयोगात् स्याच्छोषः पित्तानिलास्रता ।देहदृक्केशदन्ताग्निश्रोत्रवर्णबलक्षयः
”इति राजवल्लभः
*
“विना पणं मुखे दत्त्वा गुवाकं भक्षयेद्यदि ।तावद्भवति चण्डालो यावद्गङ्गां गच्छति
”इति कर्म्मलोचनम्
*
“ताम्बूलं विधवास्त्रीणां यतिनां ब्रह्मचारिणाम् ।तपस्विनाञ्च विप्रेन्द्र ! गोमांससदृशं ध्रुवम्
”इति ब्रह्मवैवर्त्ते ब्रह्मखण्डम्
*
अस्य नामानि गुणाश्च यथा, भावप्रकाशे ।“ताम्बूलवल्ली ताम्बूली नागिनी नागवल्लरी ।ताम्बूलं विशदं रुच्यं तीक्ष्णोष्णं तुवरं सरम्
वश्यं तिक्तकटुक्षारं रक्तपित्तकरं लघु ।बल्यं श्लेष्मास्यदौर्गन्धमलवातश्रमापहम्
”क्रमुकम् इति मेदिनी ले, ९७