| YouTube Channel

तामसः (tAmasaH)

 
Hindi
Hindi
अज्ञान के मोड में
Apte Hindi
Hindi
तामसः
पुं*
- -
चौथे मनु का नाम
Wordnet
Sanskrit
Synonyms:
तामसः
noun
चतुर्दशसु मनुषु चतुर्थः मनुः।
"तामसस्य पुत्रस्य नाम धन्वी इति आसीत्।"
Synonyms:
तामसः
noun
एकः पुरुषः
"शिवस्य उल्लेखः प्रवरग्रन्थे वर्तते"
Synonyms:
तामसः
noun
एकः मनुः
"तामसः चतुर्थः मनुः अस्ति"
Synonyms:
तामसः
noun
एकः अनुचरः
"तामसः शिवस्य अनुचरः अस्ति"
Synonyms:
तामसः
noun
एकः राक्षसः
"तामसस्य उल्लेखः हरिवंशे वर्तते"
शब्दकल्पद्रुमः
Sanskrit
तामसः,
पुं,
(तमस्तमोगुणः प्रघानत्वेनास्त्यस्येति ।अण् ।) सर्पः खलः इति मेदिनी से, २५
उलूकः इति राजनिर्घण्टः
चतुर्थमनुः ।अस्मिन्मन्वन्तरे हरिनामा विष्णोरवतारः ।त्रिशिखनामा इन्द्रः वैधृतयो देवाः ज्योति-र्घामादयः सप्तर्षयः वृषख्यातिनरादयो मनु-सुताः इति श्रीभागवतम्
*
तमोगुण-युक्ते, त्रि
(यथा, मनुः १२ ३३ ।“लोभः स्वप्नोऽधृतिः क्रौर्य्यं नास्तिक्यं भिन्न-वृत्तिता ।याचिष्णुता प्रमादश्च तामसं गुणलक्षणम्
”)तामसमुनयो यथा कणादः गौतमः शक्त्रिः ३उपमन्युः जैमिनिः दुर्व्वासाः मृकण्डुः ७बृहस्पतिः भार्गवः जमदग्निः १०
तामस-शास्त्राणि यथा असुरमोहनार्थशिवकृत-शैवपाशुपतादि कणादकृतनग्ननीलपटादि २ब्राह्मणरूपिभगवद्कृतबौद्धशास्त्रम् जैमिनि-कृतनिरीश्वरसांख्यम्
तामसपुराणानि यथा ।मात्स्यम् कौर्म्मम् लैङ्गम् शैवम् ४स्कान्दम् आग्नेयम्
तामसस्मृतयो यथा ।गौतमम् बार्हस्पत्यम् सामुद्रम् यमम् ४शाङ्ख्यम् औशनसम्
*
राजसतामस-कर्म्माणि यथा, --“यत् शैवं दैवतं पैत्रमौपदैवं तथाध्वरम् ।शाक्तं शैवं गाणपत्यं यागहोमादिकं तथा
पौरोहित्यं याजनञ्च देवल्कं ग्रामयाजकम् ।विष्णुसेवापराधञ्च तथा नामापराधकम्
असत्प्रतिग्रहं देवि ! साङ्कल्पमाभिचारिकम् ।पशुजीवादिहननं पातकञ्चोपपातकम्
अतिपापं महापापमनुपातकमेव ।लोभं मोहमहङ्कारं कामं क्रोधं मदन्तथा
एतद्यदपरं कर्म्म गर्हितञ्च वरानने ! ।राजसं तामसं प्रोक्तं मया मुनिभिः सदा
”इति पाद्मोत्तरखण्डम्