| YouTube Channel

तामसं (tAmasaM)

 
Hindi
Hindi
अज्ञान के मोड में
शब्दकल्पद्रुमः
Sanskrit
तामसं, त्रि, (तम एव तमस् + स्वार्थे अण् ।)प्रकृतिगुणविशेषः तद्धर्म्मा यथा, --“त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा ।सात्त्विकी राजसी चैव तामसी चेति तां शृणु
यजन्ते सात्त्विका देवान् यक्षरक्षांसि राजसाः ।प्रेतान् भूतगणांश्चान्ये यजन्ते तामसा जनाः
यातयामं गतरसं पूतिपर्य्युषितञ्च यत् ।उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम्
विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम् ।श्रद्धाविरहितं यज्ञं तामसं परिचक्षते
मूढग्राहेणात्मनो यत् पीडया क्रियते तपः ।परस्योत्सादनार्थं वा तत्तामसमुदाहृतम्
अदेशकाले यद्दानमपात्रेभ्यश्च दीयते ।असत्कृतमवज्ञानं तत्तामसमुदाहृतम्
”इति श्रीभगवद्गीतायां १७ अध्यायः
*
किञ्च तत्रैव १८ अध्याये ।“नियतस्य तु सन्न्यासः कर्म्मणो नोपपद्यते ।मोहात्तस्य परित्यागस्तामसः परिकीर्त्तितः
यत्तु कृत्स्नवदेकस्मिन् कार्य्ये सक्तमहेतुकम् ।अतत्त्वार्थवदल्पञ्च तत्तामसमुदाहृतम्
अनुबन्धं क्षयं हिंसामनपेक्ष्य पौरुषम् ।मोहादारभ्यते कर्म्म यत्तत्तामसमुच्यते
अयुक्तः प्राकृतस्तब्धः शटो नैकृतिकोऽलसः ।विषादी दीर्घसूत्री कर्त्ता तामस उच्यते
अधर्म्मं धर्म्ममिति या मन्यते तमसावृता ।सर्व्वार्थान् विपरीतांश्च बुद्धिः सा पार्थ ! तामसी ।यया स्वप्नं भयं शोकं विषादं मदमेव ।न विमुञ्चति दुर्म्मेधा धृतिः सा तामसी मता
यदग्रे चानुबन्धे सुखमोहनमात्मनः ।निद्रालस्यप्रमादोत्थं तत्तामसमुदाहृतम्