| YouTube Channel

तापदुःख (tApaduHkha)

 
वाचस्पत्यम्
Sanskrit
तापदुःख
न०
तापरूपं दुःखम् “पातञ्जलोक्ते दुःखभेदे“परिणामतापसस्कारदुःखैर्गुणवृत्तिविरोधाच्च दुःखमेवसर्वं विवेकिनः” सू० “ते जन्मायुर्भोगाः पुण्य-हेतकाः सुखफलाः, अपुण्यहेतुकाः दुःखफलाइति यथा चेदं दुःखं प्रतिकूलात्मकं एवं विषयसुखकालेऽपि दुःखमस्त्येव प्रतिकलात्मकं योगिनः ।कथं तदुपपद्यते” “अथ का तापदुःखता सर्वस्य द्वेषानु-त्रिद्धश्चेतनाचेतनसाधनाधीनस्तापानुभव इति तत्रास्तिद्वेषजः कर्म्माशयः सुखसाधनानि प्रार्थयानःकायेन वाचा मनसा परिस्पन्दते ततः परमनु-गृह्णात्युपहन्ति वेति परानुग्रहपीडाभ्यां धर्म्माधर्मा-वुपचिनोति कर्म्माशयो लोभान्मोहाच्च भवती-त्येषा तापदुःखतोच्यते” भा० “ते जन्मायुर्भोगा इतियद्यपि जन्मायुषोरेव ह्लादपरितापपूर्वभावितयातत्फलत्वं तु भोगस्य ह्लादपरितापोदयानन्तरभाविन-स्तदनुभवात्मनस्तथाप्यनुभाव्यतया भोग्यतया भोगकर्म्म-तामात्रेण भोगफलत्वमिति मन्तव्यं नन्वपुण्यहेतुका जा-त्यायुर्भोगाः परितापफला भवन्तु हेयाः प्रतिकुलवेदनी-यत्वात् कस्मात्? पुनः पुण्यहेतवस्त्यज्यन्ते सुखफलाःअनुकूलवेदनीयत्वात्, चैषां प्रत्यात्मवेदनीयानुकूलताशक्या सहस्रेणाप्यनुमानागमैरपाकर्त्तुं, ह्लाद-परितापौ परस्पराविनाभूतौ यतो ह्लाद उपादीयमाने-नैव परितापोऽप्यवर्जनीयतयापतेत् तयोर्भिन्नहेतु-कत्वाद्भिन्नरूपत्वात् चेत्यत आह यथाचेदमिति” विवरणम्