| YouTube Channel

तान्दुर (tAndura)

 
वाचस्पत्यम्
Sanskrit
तान्दुर
न०
तन्दुरेण पाकयन्त्रभेदेन निर्वृत्तम् अण् तन्दूर-पक्वे मांसभेदे तत्पाकविधिः शब्दार्थचि० धृतवाक्ये यथा“अङ्गारपूर्णगर्त्ते यदलग्नमवलम्बितम् संस्कृतंपिहितं मांसं पक्वं तान्दुरमुच्यते” सुस्वादु तान्तुरन्तु ।“पचेद्गर्त्तेऽन्तरीक्षस्थं लम्बि सम्भारसम्भृतम् चतुर्दिङ-मण्डलाकारं पार्श्वप्रज्वलितानले विपक्वं सुरभि स्वादुतान्दूरमिति कीर्त्तितम् अन्यच्च “कोथिकायांसुसम्भारमलग्नमवलम्बितम् मांसं पिधाय बाह्याग्नि-ज्वालया स्वेदितम् वरम् तान्दुरं रुचिदं बल्यं मृदुपथ्यतमं स्मृतम् सद्योहतं नवं स्थूलमन्यथा दोष-कारणमिति”