| YouTube Channel

तात्पर्य्य (tAtparyya)

 
शब्दसागरः
English
तात्पर्य्य
n.
(-र्य्यं)
1. Object, purpose, intent, design.
2. Meaning, purport.
3. Explanation.
E.
तत्पर intent, ष्यञ्
aff.
तत्परस्य भावः
Yates
English
तात्पर्य्य (र्य्य) 1.
n.
Object, purpose,
design
meaning
explanation.
Wilson
English
तात्पर्य्य
n.
(-र्य्यं)
1 Object, purpose, intent, design.
2 Meaning, purport.
2 Explanation.
E.
तत्पर intent, यञ्
aff.
वाचस्पत्यम्
Sanskrit
तात्पर्य्य
न०
तत्परस्य भावः ष्यञ् वक्तुरिच्छायाम्, अभिप्राये तत्परतायाञ्च तात्पर्य्यशब्दार्थनिरूपणेनतात्पर्य्यज्ञानस्य शाब्दवोधजनकत्वमनुमानचि० समर्थितंयथा “तात्पर्य्याधीनं शब्दप्रामाण्यम् तत्र तत्परत्वं नतत्साध्यकत्वम् पदार्थतत्संसन्धयोः शब्दासाध्य-त्वात् अथ तद्गोचरप्रवृत्तिनिवृत्तिसाध्यकत्वं तत्परत्वंतच्च भव्यार्थस्य साक्षात्, भूतार्थस्य तु प्रशंसानिन्दावाक्यस्यप्रशस्तनिन्दितस्वार्थप्रतिपादनद्वारा लाक्षणिकस्यलक्षणीयविषयप्रवृत्तिनिवृत्तिजनकत्वेन तत्परत्वमिति चेत्न तत्परत्वेऽङ्गीकृते तज्ज्ञानं जनयित्वा तत्र प्रवर्त्तकत्वंतत्प्रवर्त्तकत्वे तत्परत्वमिति परस्पराश्रयात् लाक्ष-णिकस्याननुभावकत्वेऽपि लक्षणीयपरत्वात् काव्यादेःस्वरूपाख्यानमात्रपर्य्यवसानाच्च ननु तद्बुद्धिज-नकत्वं तत्परत्वं प्रशंसानिन्दावाक्यमपि प्रशस्तनिन्दित-स्वार्थधीहेतुत्वेन तत्परार्थकं तच्च ज्ञानं प्रशस्ते सर्वःप्रवर्त्तते निन्दिताच्च निवर्त्तत इति स्वविषये प्रवृत्तिनि-वृत्ती जनयतीति तत्परमुच्यत इति चेत् गौणलाक्ष-णिकयोरननुभावकत्वात् तद्बुद्धिजनने तत्परत्वमित्य-न्योन्याश्रयाच्च तज्जननयोग्यत्वमिति चेत् तथैकत्रोच्चा-रणेन नानार्थे नानार्थपरत्वं लक्षणायाञ्च तुल्यार्थपरत्वंस्यात् योग्यतासत्त्वात् नापि तत्प्रतिपदाद्यकत्वं तात्प-र्य्यं विना तथेत्यन्योन्याश्रयात् प्रशंसादिवाक्यस्य प्रवृ-त्त्याद्यप्रतिपादकत्वात् लाक्षणिकस्याप्रतिपादकत्वाच्च ।अथ गङ्गापदं स्वार्थाविनाभावे तीरं प्रतिपादयत् तत्पर-मिति चेत् मञ्चाः क्रोशन्तीत्यत्र तेन विनापि पुरुषेतात्पर्य्यात् गङ्गादिपदं मत्स्यादिपरं मुख्यतीरपरञ्च स्यात्अविनाभावस्य तदेव स्यात् मुख्ये बाधके सतीति चेत् ।तर्हि मुख्यार्थपरतैव स्यात् मापि गच्छ गच्छसी-त्यत्र गमनाभावपरत्वम् उच्यते तत्प्रयोजनकत्वंतत्परत्वं तदर्थप्रतीतिः प्रवृत्तिनिवृत्ती प्रयोजनत्वञ्चन साध्यत्वं अन्योन्याश्रयात् नापि प्रतिपाद्ये स्वविष-यत्वं यस्य यदिच्छाविषयस्तं प्रति तत्परत्वापत्तेः तदर्थ-साध्यसाधनत्वेनेच्छानियम इति चेत् इह धूम इत्यत्रजन्यज्ञाप्यभेदेन साध्यस्य वस्तुभेदतया वाक्यभेदप्रसङ्गात्पुभिच्छाया नियन्तुमशक्यत्वात् किन्तु प्रतिपादकेच्छाविष-यत्वं तत्परत्वं यः शब्दो वक्त्रा यदिच्छया प्रयुक्तः सतत्परः सा प्रतिपाद्यधोः प्रवृत्तिनिवृत्तिविषययोःतत्परत्वं नानार्थात् श्लिष्टादनेकपदार्थान्वितैकक्रियाप-रान्मुख्यसाक्षणिकपदादनावृत्त्या क्रमेणानेकार्थज्ञानं, नत्वेकदैव सकृदर्थपरत्वनियमेनैकत्रोच्चारणेऽनेकपरत्वाभावा-दिति सकलतान्त्रिकैकबाक्यतया वदन्ति तत्र ब्रूमः ।अनेकार्थप्रतीतीच्छयैकमुच्चारणं भवत्येव पुमिच्छाया नि-यन्तुमशक्यत्वात् यदि तदुच्चारणमेकार्थपरं तदा आवृत्ति-रपि स्यात् तात्पर्य्यनिर्वाहार्थमावृत्तिकल्पनात् ।अन्यथैकपरेऽपि तदापत्तेः अतएव तदुच्चारणस्योभयपर-तायामावृत्तिकल्पनं, तस्मात्तुल्यवदनेकार्थोपस्थितौ तात्प-र्य्यादिज्ञाने युगपदनेकान्वयबोधो भवत्येव सामग्र्यास्तु-ल्यत्वात् प्रथममेकस्यान्वयबोधो तदन्यस्येति नियन्तु-मशक्यत्वाच्च” ।“आकाङ्क्षा वक्तुरिच्छा तु तात्पर्य्यं परिकीर्त्तितम्” भाषा०“तात्पर्य्यं निर्वक्ति वक्तरिच्छेति यदि तात्पर्य्यज्ञानंकारणं स्यात् तदा सैन्धवमानयेत्यादौ क्वचिदश्वस्यक्वचिल्लवणस्य बोधो स्यात् तात्पर्य्यग्राहक-प्रकरणादीनामेव शाब्दवोधे कारणत्वमस्त्विति तात्-पर्य्यज्ञानजनकत्वेन तेषामगुगमे तु तात्पर्य्यज्ञानमेवलाघवात् कारणमस्तु इत्यञ्च वेदस्थलेऽपि तात्पर्य्य-ज्ञानार्थमीश्वरः कल्प्यते तत्राध्यापकतात्पर्य्य-ज्ञानं कारणभिति वाच्यम् सर्गादावध्यापकाभावात्न प्रलय एव नास्तीति कुतः सर्गादिरिति वाच्यम्प्रलयस्यागमप्रतिपाद्यत्वात् इत्यञ्च शुकवाक्येऽपि ईश्व-रीयतात्पर्य्यज्ञानं कारणम् विसंवादिशुकवाक्ये तुशिक्षयितुरेव तात्पर्व्यस्य ज्ञानं कारणम् अन्ये तुनानार्थादौ क्वचिदेव तात्पर्य्यज्ञानं कारणम् तथा चशुकवाक्ये विनैव तात्पर्य्यज्ञानं शाब्दवोधः वेदे तु अना-दिमीमांसापरिशोधिततर्क्वैरर्थावधारणमित्याहुः मुक्ता०“ननु मामूदाप्तोक्तत्वस्य निश्चयानुरोधेन सिद्धसाधनंतात्पर्य्यस्य तु स्यात् तन्निश्चयस्यान्वयधीहेतुत्वात् अन्यथाघटकर्म्मत्वादिपरत्वाभावस्य घटकर्म्मत्वाद्यन्यमात्रपर-त्वस्य वा निश्चयेऽपि घटमित्यादिवाक्यात् कर्म्मत्वंघटीयमित्याद्यन्वयबोधापत्तेरिति चेन्न कर्म्मताधर्म्मि-कघटाद्यन्वयधीपरत्वाभावनिश्चयदशायां प्रमेयत्वादिप्रकारेण घटकर्म्म त्वादिपरत्वस्य निश्चयेऽपि घटीयं कर्म्म-त्वमित्यन्वयमतेरनुत्पत्त्या कर्म्मताधर्म्मिकघटान्वयबोध-परत्वप्रकारकनिश्चयत्वेनैव तात्पर्य्यधियस्तस्यां कारण-त्वेन वाक्यार्थस्य तत्रानिवेशात् वस्तुतः समानानु-पूर्वीकस्यैव वाक्यान्तरस्य तस्यैव वा कालान्तरमन्तर्भाव्यघटीयकर्म्मत्वादिपरत्वनिश्चयसत्त्वेऽपि श्रूयमाणवा-क्यव्यक्ताविदानीमन्तर्भावेण तत्परत्वस्यानिश्चयेऽभावे वाघटीयं कर्म्मत्वमित्याद्यन्वयमतेरनुत्पादाद्विशिष्यैवतत्तद्वाक्यव्यक्तिधर्म्मिकस्य घटकर्म्मत्वादिपरत्वनिश्च-यस्य तत्तदन्वयबोधहेतुत्वमुपेयं तथा तत्तद्धेतुभू-तानां प्रकरणज्ञानाभिधानामेव विज्ञानव्यक्तीनान्तथा-त्वमुचितम् अवश्यं कॢप्तपूर्ववर्त्तिताकत्वात् अतएवसैन्धवमानय इत्यादावपि लवणपरत्वधीर्न लवणाद्य-न्वयबुद्धौ हेतुः किन्तु तदर्जकत्वेनाभिमतं भोजना-दिप्रकरणस्य प्रतिसन्धानमिति न्यायसिद्धान्तः” शब्द० प्र०