| YouTube Channel

तातण्डकः-ण्डिका (tAtaNDakaH-NDikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“तडि ताडने”@} 2 ताडनम् = निरसनम्।
तण्डकः-ण्डिका, तण्डकः-ण्डिका, तितण्डिषकः-षिका, तातण्डकः-ण्डिका
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककण्ठतिवत् 3 ज्ञेयानि।
4 वतण्डः, 5 वितण्डा, वैतण्डिकः।
6
प्रासङ्गिक्यः
01
=>
(६९७)
02
=>
(१-भ्वादिः-२८०। सक। सेट्। आत्म।)
03
=>
(१४९)
04
=>
[[१। अवपूर्वकादस्मात् पचाद्यचि (३-१-१३४) ‘वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः।’ इति वचनेन ‘अव’ इत्यत्रोपसर्गस्थाकारस्य लोपे वतण्डः इति भवति।]]
05
=>
[[२। विपूर्वकादस्मात् ‘गुरोश्च हलः’ (३-३-१०३) इत्यकारप्रत्ययः। वितण्डया = दीव्यति = व्यवहरतीत्यर्थे, ‘तेन दीव्यति खनति जयति जितम्’ (४-४-२) इति ठक्प्रत्यये वैतण्डिकः। ‘स्वपक्षस्थापनाहीनः परपक्षप्रतिक्षेपो वितण्डा’ इति न्यायसूत्रम्।]]
06
=>
[[आ। ‘अभुण्डितोच्चण्डगतीनशण्डनान् कुमार्गवैतण्डिकपण्डितावृतान्।’ धा। का। १। ३७।]]