| YouTube Channel

ताण्डवं (tANDavaM)

 
शब्दकल्पद्रुमः
Sanskrit
ताण्डवं,
क्ली,
पुं,
नृत्यम् इत्यमरः १०
ताण्डेन मुनिना कृतं ताण्डि नृत्यशास्त्रं तद-स्यास्तीति इति भरतः
तण्डुना प्रोक्तमितिस्वामी
(“पुंनृत्यं ताण्डवं प्राहुः स्त्रीनृत्यं लास्यमुच्यते
”इति शब्दार्थचिन्तामणिधृतवचनेन पुंनृत्यम्
)तृणविशेषः उद्धतनृत्यम् इति मेदिनी वे, ३६
(यथा, मत्स्यपुराणे ।“प्रचण्डताण्डवाटोपे प्रक्षिप्ता येन दिग्गजाः ।भवन्तु विघ्नभङ्गाय भवस्य चरणाम्बुजाः
”)