| YouTube Channel

ताडनं (tADanaM)

 
शब्दकल्पद्रुमः
Sanskrit
ताडनं,
क्ली,
(ताडि + भावे ल्युट् ।) आघातः ।यथा, शृङ्गारतिलके ।“श्लाघ्यं नीरसकाष्ठताडनशतं श्लाघ्यः प्रचण्डातपः
”यथाच, गारुडे ९६ अध्याये ।“श्रुतिस्मृत्युक्तमाचारं कुर्य्यान्मर्म्माणि स्पृशेत् ।न निन्दाताडने कुर्य्यात् सुतं शिष्यञ्च ताडयेत् ।आचरेत् सर्व्वदा धर्म्मं तद्विरुद्धन्तु नाचरेत्
”अपि चाणक्ये १२ ।“लालने बहवो दोषास्ताडने बहवो गुणाः ।तस्मात् पुत्त्रञ्च शिष्यञ्च ताडयेन्न तु लालयेत्