| YouTube Channel

तवराजोद्भवखण्डः (tavarAjodbhavakhaNDaH)

 
शब्दकल्पद्रुमः
Sanskrit
तवराजोद्भवखण्डः,
पुं,
(उद्भवत्यस्मादिति उत् +भू + अच् उद्भव उत्पत्तिस्थानम् तवराजउद्भवोऽस्य यद्बा, तवराजात् उद्भवतीति ।उद् + भू + अच् ।) ततः कर्म्मधारयः यवास-शर्कराभवखण्डः तत्पर्य्यायः सुधामोदकजः २खण्डजोद्भवजः सिद्धमोदकः अमृतसारजः ५सिद्धखण्डः अस्य गुणाः दाहतापतृष्णा-मोहमूर्च्छाश्वासनाशित्वम् इन्द्रियतर्पणत्वम् ।शीतत्वम् सदासुमधुरत्वञ्च इति राज-निर्घण्टः