| YouTube Channel

तलातलं (talAtalaM)

 
शब्दकल्पद्रुमः
Sanskrit
तलातलं,
क्ली,
(नास्ति तलं यस्येति अतलम् ।तलादपि अतलम् अत्यन्तनिम्नतयास्य तथा-त्वम् ।) पातालविशेषः इति शब्दमाला
तत्र मयनामा दानवेन्द्रस्त्रिपुराधिपतिर्भगवतात्रिपुरारिणा त्रिलोक्याः शं चिकीर्षुणा निदग्ध-स्वपुरत्रयस्तत्प्रसादात् लब्धपदो मायाविनामा-चार्य्यो महादेवेन परिरक्षितो विगतसुदर्शन-भयो महीयते ।” इति श्रीभागवतम्