| YouTube Channel

तलं (talaM)

 
शब्दकल्पद्रुमः
Sanskrit
तलं, क्ली
पुं,
(तलतीति तल प्रतिष्ठायाम् +पचाद्यच् ।) स्वरूपम् यथा महीतलम् ।(यथाच माघे १११ ।“कृत्वा कृत्यविदस्तीर्थेष्वन्तः प्रणिधयः पदम् ।विदाङ्कुर्व्वन्तु महतस्तलं विद्बिषदम्भसः
”“तलं स्वरूपं प्रमाणमिति यावत्
इतितट्टीकायां मल्लिनाथः
) अनूर्द्ध्वम् इति मेदिनी ।ले, २१
(अधः इत्यमरः २०१
यथा, मनुः ५९ ।“अङ्गुष्ठमूलस्य तले ब्राह्मं तीर्थं प्रचक्षते
”यथा शान्तिशतके १९ ।“वासो वल्कलमास्तरः किशलयान्योक-स्तरूणां तलंमूलानि क्षतये क्षुधां गिरिनदीतोयंतृषाशान्तये
”हस्तादीनासुपरिभागः यथा, --“तलं प्रत्यङ्गुलीनां याः कण्डरा बाहुपृष्ठतः ।बाह्वोः कर्म्मक्षयकरी --
”इति माधवकृतरुग्विनिश्चये वातव्याधौ
“तलं हस्तस्योपरिभागः तलशब्दोऽत्र उपरि-वचनः यथा भूतलमिति गयदासः तेनाय-मर्थः, बाह्वोः पृष्ठं बाहुपृष्ठं तत आरभ्य हस्त-तलं लक्ष्यीकृत्येति
इति विजयरक्षितकृत-व्याख्यानम्
)
तलं,
क्ली,
(तलतीति तल + अच् ।) ज्याघात-वारणा (यथा, --“ततः समुत्पेतुरुदायुधास्तेमहीक्षितो बद्धतलाङ्गुलित्राः
”)इति महाभारते १९० १५ ।काननम् कार्य्यवीजम् इति मेदिनी ले, २१
गर्त्तः इति त्रिकाण्डशेषः
पादतलस्यमध्यम् इति हेमचन्द्रः २८२
(यथा, भागवते २० २३ ।“रसामचष्टाङ्घ्रितलेऽथ पादयो-र्महीं महीध्रान् पुरुषस्य जङ्घयोः ।पतत्त्रिणो जानुनि विश्वमूर्त्ते-रूर्व्वोगणं मारुतमिन्द्रसेनः
”हस्तस्य मध्यमपि यथा, मनुः १४३ ।“पृष्ट्वैतानशुचिर्नित्यमद्भिः प्राणानुपस्पृशेत् ।गात्राणि चैव सर्व्वाणि नाभिं पाणितलेन तु
”)