| YouTube Channel

तर्ढा-र्ढ्री (tarDhA-rDhrI)

 
कृदन्तरूपमाला
Sanskrit
1 {@“तृहू हिंसायाम्”@} 2 ‘श्ने तृणेढीति हिंसायाम्, तृहतीत्यूदितस्तृहेः।।’ 3 देवः।
तर्हकः-र्हिका, तर्हकः-र्हिका, 4 तितर्हिषकः-षिका, तितृक्षकः-क्षिका, तरीतृहकः-हिका
5 तर्हिता-त्री, 6 तर्ढा-र्ढ्री, तर्हयिता-त्री, तितर्हिषिता-तितृक्षिता-त्री, तरीतृ-हिता-त्री
7 व्यतितृहन्-न्ती-ती, तर्हयन्-न्ती, तितर्हिषन्-तितृक्षन्-न्ती
-- तर्हिष्यन्-न्ती-ती, तर्क्ष्यन्-न्ती-ती, तितर्हिषिष्यन्-तितृक्षिष्यन्-न्ती-ती
-- -- तर्हयमाणः, तर्हयिष्यमाणः, -- तरीतृह्यमाणः, तरीतृहिष्यमाणः
सुतृट्-सुतृड्-सुतृहौ-सुतृहः
-- -- -- 8 तृढम्-तृढः-तृढवान्, तर्हितः, तितर्हिषितः-तितृक्षितः, तरीतृहितः-तवान्
तृहः, प्रतर्ही, तर्हः, तितर्हिषुः-तितृक्षुः, तरीतर्हः
तर्हितव्यम्-तर्ढव्यम्, तर्हयितव्यम्, तितर्हिषितव्यम्-तितृक्षितव्यम्
तरीतृहितव्यम्
तर्हणीयम्, तर्हणीयम्, तितर्हिषणीयम्-तितृक्षणीयम्, तरीतृहणीयम्, तृह्यम्, तर्ह्यम्, तितर्हिष्यम्-तितृक्ष्यम्, तरीतृह्यम्, ईषत्तर्हः-दुस्तर्ह-सुतर्हः
-- -- -- तृह्यमाणः, तर्ह्यमाणः, तितर्हिष्यमाणः-तितृक्ष्यमाणः, तरीतृह्यमाणः
तर्हः, तर्हः, तितर्हिषः-तितृक्षः, तरीतृहः
तर्हितुम्-तर्ढुम्, तर्हयितुम्, तितर्हिषितुम्-तितृक्षितुम्, तरीतृहितुम्
तृढिः, तर्हणा, तितर्हिषा-तितृक्षा, तरीतृहा
तर्हणम्, तर्हणम्, तितर्हिषणम्-तितृक्षणम्, तरीतृहणम्
9 तर्हित्वा-तृढ्वा, तर्हयित्वा, तितर्हिषित्वा-तितृक्षित्वा, तरीतृहित्वा
प्रतृह्य, प्रतर्ह्य, प्रतितर्हिष्य-प्रतितृक्ष्य, प्रतरीतृह्य
तर्हम् २, तर्हित्वा २-तृढ्वा, तर्हम् २, तर्हियित्वा, तितर्हिषम् २-तितृक्षम् २, तितर्हिषित्वा २-तितृक्षित्वा २, तरीतृहम्
तरीतृहित्वा २। 10
प्रासङ्गिक्यः
01
=>
(७७७)
02
=>
(६-तुदादिः-१३४८। सक। वेट्। पर।)
03
=>
(श्लो। १९५)
04
=>
[[५। ‘स्वरतिसूतिसूयतिधूञूदितो वा’ (७-२-४४) इति इड्विकल्पः। इडभावपक्षे ‘इको झल्’ (१-२-९) इति सनः कित्त्वम्। ‘हो ढः’ (८-२-३१) इति ढत्वे, ‘षढोः कः सि’ (८-२-४१) इति ढकारस्य ककारे, ‘इण्कोः’ (८-३-५७) इति षत्वे रूपम्। एवमिडभावपक्षे सन्नन्ते सर्वत्र प्रक्रिया ज्ञेया।]]
05
=>
[पृष्ठम्०६९६+ २३]
06
=>
[[१। ऊदित्त्वेनेड्विकल्पः। इडभावपक्षे ढत्वधत्वष्टुत्वढलोपाः। एवं तव्यदादिष्वपि।]]
07
=>
[[२। ‘न गतिहिंसार्थेभ्यः’ (१-३-१५) इति कर्मव्यतिहारे शानचो निषेधः। ‘तुदादिभ्यः--’ (३-१-७७) इति शः विकरणप्रत्ययः। शस्य सार्वधातुकत्वेन ङिद्वद्भावादङ्गस्य गुणो भवति।]]
08
=>
[[३। ऊदित्त्वेनेड्विकल्पनात् निष्ठायाम्, ‘यस्य विभाषा’ (७-२-१५) इतीण्णिषेधे, ढत्वादिकं भवति।]]
09
=>
[[४। इट्पक्षे, ‘न क्त्वा सेट्’ (१-२-१८) इति कित्त्वनिषेधाद् गुणो भवति।]]
10
=>
[पृष्ठम्०६९७+ २५]