| YouTube Channel

तर्ज्जनी (tarjjanI)

 
शब्दकल्पद्रुमः
Sanskrit
तर्ज्जनी,
स्त्री,
(तर्ज्यतेऽनयेति तर्ज्ज भर्त्सने +करणे ल्युट् ततः स्त्रियां ङीप् ।) अङ्गुष्ठ-समीपाङ्गुलिः तत्पर्य्यायः प्रदेशिनी ।इत्यमरः ८१
सा तु गर्भस्थस्यचतुभिर्म्मासैर्भवति इति सुखबोधः
(यथा, कथासरित्सागरे १७ ८८ ।“तच्छ्रुत्वा श्वशुरं तं सा बधूः सोमप्रभा क्रुधा ।विलोक्य भ्रामयामास यमाज्ञामिव तर्ज्जनीम्
”)