| YouTube Channel

तरीतृषः (tarItRSaH)

 
कृदन्तरूपमाला
Sanskrit
1 {@“ञि तृष पिपासायाम्”@} 2 तर्षकः-र्षिका, तर्षकः-र्षिका, तितर्षिषकः-षिका, तरीतृषकः-षिका
तर्षिता-त्री, तर्षयिता-त्री, तितर्षिषिता-त्री, तरीतृषिता-त्री
3 तृष्यन्-न्ती, तर्षयन्-न्ती, तितर्षिषन्-न्ती
-- तर्षिष्यन्-न्ती-ती, तर्षयिष्यन्-न्ती-ती, तितर्षिषिष्यन्-न्ती-ती
-- -- तर्षयमाणः, -- तरीतृष्यमाणः
-- तर्षयिष्यमाणः, -- तरीतृषिष्यमाणः
4 तृट्-तृड्-तृषौ-तृषः
-- -- -- 5 तृषितम्- 6 तृषितः-तृषितवान्, तर्षितः, तितर्षिषितः, तरीतृषितः-तवान्
तृषः, 7 तृष्णक् 8, प्रतर्षी, तर्षः, तितर्षिषुः, 9 तरीतर्षः
तर्षितव्यम्, तर्षयितव्यम्, तितर्षिषितव्यम्, तरीतृषितव्यम्
तर्षणीयम्, तर्षणीयम्, तितर्षिषणीयम्, तरीतृषणीयम्
10 तृष्यम्, तर्ष्यम्, तितर्षिष्यम्, तरीतृष्यम्
ईषत्तर्षः-दुस्तर्षः-सुतर्षः
-- -- -- 11 तृष्यमाणः, तर्ष्यमाणः, तितर्षिष्यमाणः, तरीतृष्यमाणः
तर्षः, तर्षः, तितर्षिषः, तरीतृषः
तर्षितुम्, तर्षयितुम्, तितर्षिषितुम्, तरीतृषितुम्
12 तृष्टिः, 13 तृट्, तर्षणा, तितर्षिषा, तरीतृषा
तर्षणम्, तर्षणम्, तितर्षिषणम्, तरीतृषणम्
14 तर्षित्वा-तृषित्वा, तर्षयित्वा, तितर्षिषित्वा, तरीतृषित्वा
प्रतृष्य, प्रतर्ष्य, प्रतितर्षिष्य, प्रतरीतृष्य
15 द्व्यहतर्षं द्व्यहं तर्षं द्व्यहेन तर्षं वा गाः पाययति।
तर्षम् २, तर्षित्वा २-तृषित्वा २, तर्षम् २, तर्षयित्वा २, तितर्षिषम् २, तितर्षिषित्वा २, तरीतृषम्
तरीतृषित्वा
16 इति नप्रत्ययो भवति किच्च।
तृष्णा = पिपासा।]] तृष्णा।
प्रासङ्गिक्यः
01
=>
(७७५)
02
=>
(४-दिवादिः-१२२८। अक। सेट्। पर।)
03
=>
[[१। ‘दिवादिभ्यः--’ (३-१-६९) इति श्यन् विकरणप्रत्ययः। ‘शपूश्यनोर्नित्यम्’ (७-१-८१) इति नित्यं नुमागमः।]]
04
=>
[[२। कर्तरि क्विपि, षकारस्य जश्त्वचर्त्वयो रूपमेवम्।]]
05
=>
[[३। ‘ञि तृषा पिपासायाम्’ इति सिद्धान्तकौमुद्यां मुद्रितः पाठो दृश्यते। तदानीं धातोरादित्त्वेन, ‘आदितश्च’ (७-२-१६) इति निष्ठायां नित्यमिण्णिषेधे, ष्टुत्वे तृष्टम्-तृष्टवान् इति रूपं स्यात्। एवम्, भावे आदिकर्मणि ‘विभाषा भावादिकर्मणोः’ (७-२-१७) इति सूत्रेण निष्ठाया इड्विकल्पोऽपि स्यात्। परं तु क्षीरतरङ्गिणी-माधवधातुवृत्ति-धातुकाव्यव्याख्यानादिपरामर्शनेन तृष इति पाठ एव साधुरिति प्रतिभाति। अस्यःधातोरादित्त्वफलं चिन्त्यमेव।]]
06
=>
[[४। ‘ञीतः क्तः’ (३-२-१८७) इति वर्तमाने क्तप्रत्ययः।]]
07
=>
[[५। ‘स्वपितृषोर्नजिङ्’ (३-२-१७२) इति तच्छीलादिषु कर्तृषु नजिङ् प्रत्ययः। ‘चोः कुः’ (८-२-३०) इति कुत्वम्। ‘रषाभ्यां नो णः समानपदे’ (८-४-१) इति णत्वम्। प्रत्ययस्य ङित्त्वाद् गुणनिषेधः।]]
08
=>
[[आ। ‘जिह्मं नुनुद्रेऽवतं तया दिशा सिञ्चन्नुत्सं गोतमाय तृष्णजे।’ ऋग्वेदे १। ८५-११।]]
09
=>
[[६। ‘यङोऽचि च’ (२-४-७४) इति यङो लुकि गुणः।]]
10
=>
[[७। ‘ऋदुपधात्--’ (३-१-११०) इति भावकर्मणोः क्यप्।]]
11
=>
[पृष्ठम्०६९४+ २६]
12
=>
[[१। ‘तितुत्र--’ (७-२-९) इतीण्णिषेधे, ‘ष्टुना ष्टुः’ (८-४-४१) इति ष्टुत्वे रूपम्]]
13
=>
[[२। स्त्रियाम्, ‘सम्पदादिभ्यः--’ (वा। ३-३-९४) इति भावे क्विपि रूपम्।]]
14
=>
[[३। ‘तृषिमृषिकृशेः काश्यपस्य’ (१-२-२५) इति क्त्वायां कित्त्वविकल्पः। कित्त्व- पक्षे गुणनिषेधः।]]
15
=>
[[४। ‘अस्यतितृषोः क्रियान्तरे कालेषु’ (३-४-५७) इति णमुल्। ‘तृतीयाप्र- भृतीनि--’ (२-२-२१) इति समासविकल्पः। अद्य गाः पाययित्वा, द्व्यहमति- क्रम्य पाययति, इत्यर्थः।]]
16
=>
[[५। ‘तृषिशुषिरसिभ्यः कित्’ [द। उ। ५। ४४]