| YouTube Channel

तरीतृंहः (tarItRMhaH)

 
कृदन्तरूपमाला
Sanskrit
1 {@“तृन्हू हिंसार्थः”@} 2 ‘श्ने तृणेढीति हिंसायाम्, तृहतीत्यूदितस्तृहेः।।’ 3 इति देवः।
4 तृंहकः-हिका, तृंहकः-हिका, 5 तितृंहिषकः-षिका-तितृक्षकः-क्षिका, 6 तरीतृहकः-हिका
तृंहिता-त्री- 7 तृण्ढा-ढ्री, तृंहयिता-त्री, तितृंहिषिता-तितृक्षिता-त्री, तरीतृहिता-त्री
8 तृहन्-न्ती-ती, तृंहयन्-न्ती, तितृंहिषन्-तितृक्षन्-न्ती
-- तृंहिष्यन्- 9 तृङ्क्ष्यन्-न्ती-ती, तृंहयिष्यन्-न्ती-ती, तितृंहिषिष्यन्-तितृक्षिष्यन्-न्ती-ती
-- 10 -- तृंहयमाणः, -- तरीतृह्यमाणः
-- तृंहयिष्यमाणः, -- तरीतृहिष्यमाणः
11 प्रतृट्-प्रतृड्-प्रतृहौ-प्रतृहः
-- -- 12 तृढम्-तृढः-तृढवान्, तृंहितः, तितृंहिषितः-तितृक्षितः, तरीतृहितः-तवान्
तृंहः, तृंहः, तितृंहिषुः-तितृक्षुः, तरीतृंहः
तृंहितव्यम्-तृण्ढव्यम्, तृंहयितव्यम्, तितृंहिषितव्यम्-तितृक्षितव्यम्, तरीतृहितव्यम्
तृंहणीयम्, तृंहणीयम्, तितृंहिषणीयम्-तितृक्षणीयम्, तरीतृहणीयम्
तृंह्यम्, तृंह्यम्, तितृंहिष्यम्-तितृक्ष्यम्, तरीतृह्यम्
ईषत्तृंहः-दुस्तृंहः-सुतृंहः
-- -- तृह्यमाणः, तृंह्यमाणः, तितृंहिष्यमाणः-तितृक्ष्यमाणः, तरीतृह्यमाणः
13 तृंहः, तृंहः, तितृंहिषः-तितृक्षः, तरीतृहः
तृंहितुम्-तृण्ढुम्, तृंहयितुम्, तितृंहिषितुम्-तितृक्षितुम्, तरीतृहितुम्
14 तृंहा, तृंहणा, तितृंहिषा-तितृक्षा, तरीतृहा
तृंहणम्, तृंहणम्, तितृंहिषणम्-तितृक्षणम्, तरीतृहणम्
15 तृंहित्वा-तृढ्वा, तृंहयित्वा, तितृंहिषित्वा-तितृक्षित्वा, तरीतृहित्वा
प्रतृह्य, प्रतृंह्य, प्रतितृंहिष्य-प्रतितृक्ष्य, प्रतरीतृह्य
तृंहम् २, तृंहित्वा २-तृढ्वा २, तृंहम् २, तृंहयित्वा २, तितृंहिषम् २-तितृक्षम् २, तितृंहिषित्वा २-तितृक्षित्वा २, तरीतृहम्
तरीतृहित्वा २।
प्रासङ्गिक्यः
01
=>
(७६९)
02
=>
(६-तुदादिः-१३५०। अक। वेट्। पर।)
03
=>
(श्लो। १९५)
04
=>
[[२। नोपधोऽयं धातुः। ‘नश्चापदान्तस्य झलि’ (८-३-२४) इत्यनुस्वारः। एवं सर्वत्र ज्ञेयम्।]]
05
=>
[[३। ऊदित्त्वेनेड्विकल्पः, इट्पक्षे एवं रूपम्। इडभावपक्षे, ‘इको झल्’ (१-२-९) इति सनः कित्त्वान्न गुणः। ‘अनिदिताम्--’ (६-४-२४) इत्युपधानकारलोपः। ‘हो ढः’ (८-२-३१) इति हकारस्य ढकारः। ‘षढोः कः सि’ (८-२-४१) इति ढकारस्य ककारः। एवमिडभावपक्षे सनि सर्वत्र ज्ञेयम्।]]
06
=>
[[४। यङन्ते ण्वुलि, यङ्निमित्तक उपधानकारलोपः। अभ्यासे, ‘रीगृत्वत इति वक्तव्यम्’ (वा। ७-४-९०) इति रीगागमः। एवं यङन्ते सर्वत्र ज्ञेयम्।]]
07
=>
[[५। ऊदित्त्वेन वलाद्यार्धधातुकेष्विड्विकल्पः। इडभावपक्षे, ‘हो ढः’ (८-२-३१) इति ढत्वे, धत्वष्टुत्वढलोपानुस्वारपरसवर्णाः। एवं तव्यदादिष्वपि ज्ञेयम्।]]
08
=>
[[६। ‘तुदादिभ्यः--’ (३-१-७७) इति शः विकरणप्रत्ययः। शस्य सार्वधातुकत्वेन ङिद्वद्भावात्, ‘अनिदिताम्--’ (६-४-२४) इत्युपधानकारलोपः, अङ्गस्य गुणाभावः।]]
09
=>
[[७। स्यप्रत्यये, इडभावपक्षे, ‘हो ढः’ (८-२-३१) इति ढत्वे, ‘षढोः कः सि’ (८-२-४१) इति ढकरस्य ककारे, उपधानकारस्यानुस्वारपरसवर्णयोश्च रूपम्।]]
10
=>
[पृष्ठम्०६८७+ २०]
11
=>
[[१। क्विपि, उपधानकारलोपे, ढत्वे, चर्त्वजश्त्वयोश्च रूपम्।]]
12
=>
[[२। निष्ठायामुपधानकारलोपे, ढत्वधत्वष्टुत्वढलोपाः।]]
13
=>
[[आ। ‘कंसः स्थितो यत्र ततर्ह लोकं स्तृढामरः तृंहकरान भीच्छन्।।’ धा। का। २। ७७।]]
14
=>
[[३। ‘गुरोश्च हलः’ (३-३-१०३) इत्यकारप्रत्ययः।]]
15
=>
[[४। इट्पक्षे, ‘न क्त्वा सेट्’ (१-२-१८) इति कित्त्वनिषेधादुपधानकारलोपो न। इडभावपक्षे, ढत्वधत्वष्टुत्वढलोपाः।]]