| YouTube Channel

तरस्वी (tarasvI)

 
Wordnet
Sanskrit
Synonyms:
आतायी, पाजिकः, प्राजिकः, तरस्वी, कामान्धः
noun
क्रव्यात्पक्षीविशेषः।
"आतायी सुमृगः भवति।"
Synonyms:
गरुडः, गरुत्मान्, तार्क्ष्यः, वैनतेयः, खगेश्वरः, नागान्तकः, विष्णुरथः, सुपर्णः, पन्नगाशनः, महावीरः, पक्षिसिंहः, उरगाशनः, शाल्मली, परिवाहनः, अमृताहरणः, नागाशनः, शाल्मलीस्थः, खगेन्द्रः, भुजगान्तकः, तरस्वी, तार्क्ष्यनायकः
noun
खगविशेषः बृहत्खगः यः खगानां नृपः इति मन्यते।
"अस्य वृक्षस्य अस्यां शाखायां गरुडः स्थितः।"
Synonyms:
तरस्वी
noun
एकः पुरुषः
"तरस्विनः उल्लेखः प्रवरग्रन्थेषु अस्ति"
शब्दकल्पद्रुमः
Sanskrit
तरस्वी, [न्] त्रि, (तरो वेगः बलं वास्त्यस्य ।तरस् + “अस्मायामेधास्रजो विनिः ।” ।१२१ इति विनिः ।) शूरः वेगी इत्यमरः ।३ १२७ (यथा, भागवते १० ३१ ।“राहुणा तथा सोमः पुलोम्ना युयुधेऽनिलः ।निशुम्भशुम्भयोर्देवी भद्रकाली तरस्विनी
”)गरुडे वायौ पुं इति राजनिर्घण्टः