| YouTube Channel

तरलितं (taralitaM)

 
शब्दकल्पद्रुमः
Sanskrit
तरलितं, त्रि, (तरलं तारल्यमस्य जातम् तरल +इतच् तरल इवाचरति तारलं करोतीति ।तरल + क्विप् + णिच् + क्त इति केचित् ।)जाततारल्यम् तत्पर्य्यायः प्रेङ्खोलितम् २लुलितम् प्रेङ्खितम् द्रुतम् चलितम् ६कम्पितम् धूतम् वेल्लितम् आन्दोलि-तम् १० इति हेमचन्द्रः
(यथा, गीतगोविन्दे ।१२ १५ ।“व्यालोलः केशपाशस्तरलितमलकैः स्वेदलोलौकपोलौ
”)