| YouTube Channel

तरद्वटी (taradvaTI)

 
वाचस्पत्यम्
Sanskrit
तरद्वटी स्त्री पक्वान्नभेदे “घृतेन मर्दितां दध्ना फेनिक्या मेल-येत्ततः विधाय वटिकास्तस्या घृते मन्दाग्निना पचेत् ।प्रलिप्ताः खण्डपाकेन कर्पूरेण विमिश्रयेत् तत एताःसमरिचास्तरद्वट्यस्तु ताः स्मृताः बल्या पुष्टीकरीहृद्या वृष्या पित्तानिलापहा सुस्निग्धा कफदा ऽत्यर्थंकिञ्चित् सन्धानकृद्धिता” शब्दार्थचि० वाक्यम्