| YouTube Channel

तमिस्रं (tamisraM)

 
शब्दकल्पद्रुमः
Sanskrit
तमिस्रं,
क्ली,
(तमोऽस्त्यत्र “ज्योत्स्नातमिस्रेति ।”५ ११४ इति निपातनात् साधुः यद्वा, तमिस्रा अस्त्याश्रयत्वेनास्य अच् ।) अन्धकारम् ।इत्यमरः
(यथा, महाभारते २१ १७ ।“यदेतन्नर्त्तनागारं मत्स्यराजेन कारितम् ।दिवात्र कन्या नृत्यन्ति रात्रौ यान्ति यथागृहम्
तमिस्रे तत्र गच्छेथा गन्धर्व्वास्तन्न जानते
”)क्रोधः इति मेदिनी रे, ६१
(नरकविशेषः ।यथा, भागवते ४४ ।“अमङ्गलानाञ्च तमिस्रमुल्वणंविपर्य्ययः केन तदेव कस्यचित्
”)